________________
धर्मसंग्रह भाग-4/द्वितीय अधिभार | PRO-93
૧૧૩ चेत्युभयमपि न कृतम्, तेनापि वन्दनाद्यवसरे एवं निमन्त्रणं क्रियते ततश्च यथाविधि साध्वादिचतुर्विधं सचं वन्दते इत्युक्तं श्रावकदिनकृत्ये, तथाच तद्ग्रन्थः“साहुसाहुणिमाईणं, काऊणं च जहोचिअं । समणोवासगमाईणं, वंदे वंदेत्ति जंपइ ।।१।।" [श्राद्धदिनकृत्ये ८५] ....
वृत्तिः-यथा साधुसाव्यादीनाम् आदिशब्दादवमग्नानां च, निश्राकृते चैत्ये तेषामपि भावात्, यथोचितं यथायोग्यम्, वन्दनछोभवन्दनवाग्नमस्कारादिकं कृत्वा, यतोऽवमग्नानामपि कारणेन सूत्रे नमस्कारादेरुक्तत्वात्, यदार्षं चोदकप्रश्नपूर्वकं यतिमाश्रित्य
"जइ लिंगमप्पमाणं, न नज्जई निच्छएण को भावो । दह्रण समणलिंगं, किं कायव्वं तु समणेणं? ।।१।।" [आवश्यकनिर्युक्तौ ११२४] व्याख्या-यदि लिङ्गं द्रव्यलिङ्गमप्रमाणम् अकारणं वन्दनप्रवृत्ती, इत्थं तर्हि न ज्ञायते-नावगम्यते, निश्चयेन परमार्थेन, छद्मस्थेन जन्तुना कस्य को भावः, यतोऽसंयता अपि लब्ध्यादिनिमित्तं संयम(त)वच्चेष्टन्ते, संयता अपि च कारणतोऽसंयतवदिति । तदेवं(वम)व्यवस्थितं दृष्ट्वाऽवलोक्य श्रमणलिङ्ग= साधुलिङ्गं किं पुनः कर्त्तव्यं श्रमणेन साधुना? एवं चोदकेन पृष्टः सनाचार्यः प्राह“अप्पुव्वं दट्टणं, अब्भुट्ठाणं तु होइ कायव्वं । साहुंमि दिट्ठपुव्वे, जहारिहं जस्स जं जोग्गं ।।२।।" [आवश्यकनियुक्तौ ११२५]
अष्टपूर्वं साधुं दृष्ट्वाऽऽभिमुख्येन अभ्युत्थानम् आसनत्यागलक्षणं तुशब्दाद्दण्डकादिग्रहणं च कर्त्तव्यम्, किमिति? कदाचिदाचार्यादिविद्यातिशयसम्पन्नः तत्प्रदानायैवागतो भवेत्, प्रशिष्यसकाशमाचार्यकालिकवत्, स खल्वविनीतं सम्भाव्य न तत्प्रयच्छतीति तथा दृष्टपूर्वास्तु द्विप्रकाराः-उद्यतविहारिणः शीतलविहारिणश्च, तत्रोद्यतविहारिणि दृष्टपूर्वे यथायोग्यम् अभ्युत्थानवन्दनादि यस्य बहुश्रुतादेर्यद्योग्यं तत्कर्त्तव्यं भवति यः पुनः शीतलविहारी न तस्याभ्युत्थानवन्दनाद्युत्सर्गतः किञ्चित्कर्त्तव्यमिति ।
साम्प्रतं कारणतः शीतलविहारिगतविधिप्रतिपादनाय सम्बन्धगाथामाह"मुक्कधुरासंपाडगसेवीचरणकरणपब्भटे । लिंगावसेसमेत्ते, जं कीरइ तं पुणो वोच्छं ।।३।।” [बृहत्कल्प भाष्ये ४५४४]
मुक्ता संयमधूर्येन सः, सम्प्रकटं प्रवचनोपघातनिरपेक्षमेव मूलोत्तरगुणजालं प्रतिसेवितुं शीलमस्येति, ततो द्वन्द्वः एतेन सालम्बनप्रतिसेवी वन्द्य एवेत्यापनम् उक्तमपि कल्पभाष्ये, पार्श्वस्थानां वन्द्याऽवन्द्यत्वविवेकप्रस्तावे