________________
७८
धर्मसंग्रह भाग-४ / द्वितीय अधिकार | दो-११ सविस्तरपूजाप्रभावनादिसंभवेन प्रेत्य प्रकृष्टं फलं स्पष्टम्, जिनजन्मस्नात्रकर्तृचतुर्षष्टिसुरेन्द्राद्यनुकारकरणादि चात्रापीति स्नात्रविधिः ।
प्रतिमाश्च विविधास्तत्पूजाविधौ सम्यक्त्वप्रकरण इत्युक्तम्"गुरुकारिआइ केई, अन्ने सयकारिआइ तं बिंति । विहिकारिआइ अन्ने, पडिमाए पूअणविहाणं ।।१।।"
व्याख्या-गुरवो मातृपितृपितामहादयस्तैः कारितायाः केचिदन्ये स्वयंकारितायाः विधिकारितायास्त्वन्ये प्रतिमायास्तत्पूर्वाभिहितं पूजाविधानं ब्रुवन्ति कर्त्तव्यमिति शेषः, अवस्थितपक्षस्तु गुर्वादिकृतत्वस्यानु-पयोगित्वात् ममत्वाग्रहरहितेन सर्वप्रतिमा अविशेषेण पूजनीयाः [श्राद्धविधिवृत्तिः प. ५९-६०]
न चैवमविधिकृतामपि पूजयतस्तदनुमतिद्वारेणाज्ञाभङ्गलक्षणदोषापत्तिः, आगमप्रामाण्यात्, तथाहि श्रीकल्पबृहद्भाष्ये“निस्सकडमनिस्सकडे, चेइए सव्वहिं थुई तिन्नि ।। वेलं व चेइआणि अ, नाउं इक्किक्किआ वावि ।।१।।" निश्राकृते गच्छप्रतिबद्धे, अनिश्राकृते तद्विपरीते चैत्ये, सर्वत्र तिस्रः स्तुतयो दीयन्ते, अथ प्रतिचैत्यं स्तुतित्रये दीयमाने वेलाया अतिक्रमो भवति भूयांसि वा तत्र चैत्यानि, ततो वेलां चैत्यानि च ज्ञात्वा प्रतिचैत्यमेकैकाऽपि स्तुतिर्दातव्या ।।।
अयं चैत्यगमनपूजास्नात्रादिविधिः सर्वोऽपि ऋद्धिप्राप्तमाश्रित्योक्तः, तस्यैवैतावद्योगसंभवात्, अऋ(नृ)द्धिप्राप्तस्तु श्राद्धः स्वगृहे सामायिकं कृत्वा केनापि सह ऋणविवादाद्यभावे ईर्याधुपयुक्तः साधुवच्चैत्यं याति, न पुष्पादिसामग्र्यभावाद् द्रव्यपूजायामशक्तः सामायिकं पारयित्वा, कायेन यदि पुष्पग्रथनादि कार्यं कर्तव्यं स्यात् तत्करोति, न च सामायिक त्यागेन द्रव्यस्तवस्य करणमनुचितमिति शक्यं, सामायिकस्य स्वायत्ततया शेषकालेऽपि सुकरत्वात्, चैत्यकृत्यस्य च समुदायायत्तत्वेन कादाचित्कत्वात्, द्रव्यस्तवस्यापि शास्त्रे महाफलत्वप्रतिपादनाच्च । यतः पद्मचरित्रे"मणसा होइ चउत्थं, छट्ठफलं उट्ठिअस्स संभवइ । गमणस्स पयारंभे, होइ फलं अट्ठमोवासो ।।१।।" “गमणे दसमं तु भवे, तह चेव दुवालसं गए किंचि । मज्झे पक्खुववासो, मासुववासं च दिटुंमि ।।२।।" "संपत्तो जिणभवणे, पावइ छम्मासिअं फलं पुरिसो । संवच्छरिअं तु फलं, दारुद्देसट्ठिओ लहइ ।।३।।"