________________
४G
धर्मसंग्रह लाग-४ | द्वितीय अधिकार | Rोs-५१ _ 'पूअंपि पुष्फामिसथुइपडिवत्तिभेअओ चउब्विहंपि जहासत्तीए कुज्जा'
ललितविस्तरादौ तु-पुष्पामिषस्तोत्रप्रतिपत्तिपूजानां यथोत्तरं प्राधान्य' [] मित्युक्तम्, तत्रामिषमशनादि भोग्य वस्तु, प्रतिपत्तिः पुनरविकलाप्तोपदेशपरिपालना इत्यागमोक्तं पूजाभेदचतुष्कम् । तथा [सम्बोधप्र. देवाधि. १९१] "दुविहा जिणिंदपूआ, दव्वे भावे अ तत्थ दव्वंमि । दव्वेहिं जिणपूआ, जिणआणापालणं भावे ।।१।।" [सम्बोधप्र. देवाधि. १९१] इति भेदद्वय्यपि । तथा सप्तदशभेदा यथा“ण्हवणविलेवण अंगंमि १, चक्खुजुअलं च वासपूआए २ । पुप्फारुहणं ३ मालारुहणं ४ तह वन्नयारुहणं ५ ।।१।। चुण्णारुहणं जिणपुंगवाण ६ आहरणरोहणं चेव ७ । पुष्फगिह ८ पुष्फपगरो ९ आरत्तीमंगलपईवो १० ।।२।। दीवो ११ धूवुक्खेवो १२, नेवेज्जं १३ सुहफलाण ढोअणयं १४ । गीअं १५ नर्से १६ वज्जं १७, पूआभेआ इमे सतर ।।३।।"
एकविंशतिभेदास्त्वनुपदमेव वक्ष्यमाणा ज्ञेयाः । एते सर्वेऽप्यङ्गादिपूजात्रये सर्वव्यापकेऽन्तर्भवन्ति । अगादिपूजात्रयफलं त्वेवमाहुः“विग्घोवसामगेगा, अब्भुदयसाहणी भवे बीआ । निव्वुइकरणी तइआ, फलयाउ जहत्थनामेहिं ।।१।।" [सम्बोधप्र. देवाधि. १९४, चेइअवंदणमहाभास २१३] [सात्त्विक्यादिभेदैरपि पूजात्रैविध्यमुक्तम्, यतो विचारामृतसंग्रहे“सात्त्विकी राजसी भक्तिस्तामसीति त्रिधाऽथवा । जन्तोस्तत्तदभिप्रायविशेषादर्हतो भवेत् ।।१।। अर्हत्सम्यग्गुणश्रेणिपरिज्ञानैकपूर्वकम् । अमुञ्चता मनोरङ्गमुपसर्गेऽपि भूयसि ।।२।। अर्हत्सम्बन्धिकार्यार्थं, सर्वस्वमपि दित्सुना । भव्याङ्गिना महोत्साहात्, क्रियते या निरन्तरम् ।।३।। भक्तिः शक्त्यनुसारेण, निःस्पृहाशयवृत्तिना । सा सात्त्विकी भवेद्भक्तिर्लोकद्वयफलावहा ।।४।।