________________
४८
धर्भसंग्रह भाग-४ / द्वितीय मधिर | Gोs-५१ उत्कृष्टतश्चैत्यवन्दनविधिश्च सविस्तरमग्रे वक्ष्यते ।
गीतनृत्याद्यग्रपूजायामुक्तं भावपूजायामप्यवतरति, तच्च महाफलत्वान्मुख्यवृत्त्या स्वयं करोत्युदायननृपराज्ञी प्रभावती यथा, यन्निशीथचूर्णि:
“पभावई ण्हाया कयबलिकम्मा कयकोउअमंगल्ला सुक्किल्लवासपरिहिआ जाव अट्ठमिचउद्दसीसु अ भत्तिरागेण य सयमेव राओ नट्टोवयारं करेइ, रायावि तयाणुवित्तीए मुरयं वाएति" []
पूजाकरणावसरे चार्हच्छद्मस्थकेवलिस्थसिद्धस्थावस्थात्रयं भावयेत् । यद्भाष्यम्"ण्हवणच्चगेहिं छउमत्थ १ वत्थपडिहारगेहिं केवलिअं २ । पलिअंकुस्सग्गेहि अ, जिणस्स भाविज्ज सिद्धत्तं ।।१।।" [चैत्यवन्दनमूलभाष्ये गा. १२]
स्नापकैः परिकरोपरिघटितगजारूढकरकलितकलशैरमरैरर्चकैश्च-तत्रैव घटितमालाधारैः कृत्वा जिनस्य छद्मस्थावस्थां भावयेत् । छद्मस्थावस्था त्रिधा-जन्मावस्था १, राज्यावस्था २, श्रामण्यावस्था ३ च । तत्र स्नपनकारैर्जन्मावस्था १, मालाधारै राज्यावस्था २, श्रामण्यावस्था भगवतोऽपगतकेशशीर्षमुखदर्शनात्सुज्ञातैव ३ । प्रातिहार्येषु परिकरोपरितनकलशोभयपार्श्वघटितैः पत्रैः कङ्केल्लिः १, मालाधारैः पुष्पवृष्टिः २, वीणावंशकरैः प्रतिमोभयपार्श्ववर्तिभिर्दिव्यो ध्वनिः ३, शेषाणि स्फुटान्येव इति भावपूजा ३ ।
अन्यरीत्याऽपि पूजात्रयं बृहद्भाष्याद्युक्तम् यथा“पंचोवयारजुत्ता, पूआ अट्ठोवयारकलिआ य । रिद्धिविसेसेणं पुण, नेआ सव्वोवयारावि ।।१।। तत्थ य पंचुवयारा, कुसुम १ ऽक्खय २ गंध ३ धूव ४ दीवेहिं ५ ।। कुसुम १ क्खय २ गंध ३ पईव ४ धूव ५ नेवेज्ज ६ फल ७ जलेहिं ८ पुणो । अट्ठविहकम्मदलणी, अट्ठवयारा हवइ पूआ ।।२।। सव्वोवयारपूआ, ण्हवणच्चणवत्थभूसणाईहिं । फलबलिदीवाईहिं, नट्टगीआरत्तिआहिति ।।३।।" [चैत्य.म.भा. २०९-२१२] शास्त्रान्तरे चानेकधाऽपि पूजाभेदा उक्ताः सन्ति, तद्यथा"सयमाणयणे पढमा, बीआ आणायणेण अन्नेहिं ।। तइआ मणसा संपाडणेण वरपुष्फमाईणं ।।१।।" [सम्बोधप्र. देवाधि. १८९] इति । कायवाङ्मनोयोगितया करणकारणानुमतिभेदतया च पूजात्रिकम् । तथा