________________
धर्मसंग्रह भाग-४ /द्वितीय मधिकार/Gो-११
४७ ऽनभिधानान शक्रस्तवातिरिक्तं तदस्तीति । अत्रोच्यते, यदुक्तमाचरितप्रामाण्यादिति तदयुक्तम्, यतो यदिदं जीवाभिगमादिसूत्रं तद्विजयदेवादिचरितानुवादपरमेवेति न ततो विधिवादरूपाधिकृत-वन्दनोच्छेदः कर्तुं शक्यः, तेषां ह्यविरतत्वात् प्रमत्तत्वाच्च तावदेव तत् युक्तम्, तदन्येषां पुनरप्रमाद-विशेषवतां विशेषभक्तिमतां तदधिकत्वेऽपि न दोषः यदि पुनराचरितमवलम्ब्य प्रवृत्तिः कार्या तदा बह्वन्यदपि कर्त्तव्यं स्याद् विधेयतयाऽङ्गीकृतमपि वर्जनीयं स्यादिति । यच्चोक्तम् 'तदधिक-तरस्यानभिधानादिति' तदयुक्तम्, 'तिण्णि वा कड्डई जाव, थुईओ तिसिलोइआ' [चेइयवंदणमहाभास गा. ८२३] इत्यादिव्यवहारभाष्यवचनश्रवणात्, साध्वपेक्षया तदिति चेन्मैवम्, साधुश्रावकयोर्दर्शनशुद्धेः कर्त्तव्यत्वाद्, दर्शनशुद्धिनिमित्तत्वाच्च वन्दनस्य तथा संवेगादिकारणत्वादशठसमाचरितत्वाज्जीतलक्षणस्येहोपपद्यमानत्वात् चैत्यवन्दनभाष्यकारादिभिरेतत्करणस्य समर्थितत्वाच्च तदधिकतरमपि नायुक्तमित्यलं प्रसङ्गेन ।
चैत्यवन्दनाश्च प्रत्यहं सप्त महानिशीथे साधोः प्रोक्ताः, श्राद्धस्याप्युत्कर्षतः सप्त यद् भाष्यम्“पडिकमणे १ चेइअ २ जिमण ३ चरिम ४ पडिक्कमण ५ सुअण ६ पडिबोहे ७ । । चिइवंदण इअ जइणो, सत्त उ वेला अहोरत्ते ।।१।। पडिकमिणो(मओ) गिहिणोवि हु, सगवेला पंचवेल इअरस्स ।। पूआसु तिसंझासु अ, होइ तिवेला जहन्नेणं ।।२।।" [चैत्यवन्दनमूलभाष्य गा. ५९-६०] तत्र द्वे आवश्यकयोः २ द्वे स्वापावबोधयोः ४ त्रिकालपूजानन्तरं तिस्त्रश्चेति सप्त ७, एकावश्यककरणे तु षट्, स्वापादिसमये तदकरणे पञ्चादयोऽपि, बहुदेवगृहादौ तु समधिका अपि, यदा पूजा न स्यात्तदापि त्रिसन्ध्यं देवा वन्द्याः श्राद्धेन । यदागमः_ 'भो भो देवाणुपिआ? अज्जप्पभिइए जावजीवाए तिकालिअं अव्वक्खित्ताचलेगग्गचित्तेणं चेइए वंदिअव्वे, इणमेव भो मणुअत्ताओ असुइअसासयखणभंगुराओ सारं ति, तत्थ पुवण्हेसु ताव उदगपाणं न कायव्वं जाव चेइए साहू अ न वंदिए, तह मज्झण्हे ताव असणकिरिअंन कायव्वं जाव चेइए न वंदिए, तहा अवरण्हे चेव तहा कायव्वं जाव अवंदिएहिं चेइएहिं नो सिज्जायलमइक्कमिज्ज' [ ] त्ति ।
तथा'सुपभाए समणोवासगस्स पाणंपि कप्पइ न पाउं । नो जाव चेइआई, साहूवि अ वंदिआ विहिणा ।।१।। मज्झण्हे पुणरवि वंदिऊण निअमेण कप्पई भोत्तुं । पुण वंदिऊण ताई, पओससमयंमि तो सुअइ ।।२।।' त्ति ।