SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ ४५ ધર્મસંગ્રહ ભાગ-૪ / દ્વિતીય અધિકાર | શ્લોક-૬૧ “तहा सक्कत्थयाइदंडगपंचगथुइचउक्कपणिहाणकरणतो संपुण्णा एसा उक्कोसत्ति' । 'अन्ने बिंति इगेणं, सक्कथएणं जहन्नवंदणया । तद्दुगतिगेण मज्झा उक्कोसा चउहिं पंचहिं वा । । १ । । ” [ चैत्यवंदनभाष्य गा. २० ] अथवा प्रकारान्तरेण वन्दनात्रैविध्यम्, यथा पञ्चाशके 44 'अहवावि भावभेआ, ओघेणं अपुणबंधगाईणं । सव्वा तिविहा णेआ, सेसाणमिमा ण जं समए ।।१।। " [३।३] व्याख्या- अथवापीति निपातः पूर्वोक्तप्रकारापेक्षया प्रकारान्तरत्वद्योतनार्थः, भावभेदात्-परिणामविशेषात्, गुणस्थानकविशेषसम्भवात्, प्रमोदमात्ररूपाद्वा, वन्दनाधिकारे जीवगता त्रिधा ज्ञेयेति संबन्धः । ओघेन- सामान्येनाविवक्षितपाठक्रियाल्पत्वादितयेत्यर्थः । केषामित्याह - 'अपुनर्बन्धकादीनां ' वन्दनाधिकारिणां, तत्रापुनर्बन्धकः - सम्यक्त्वप्राप्तिप्रक्रमे व्याख्यातपूर्वः, आदिशब्दादविरतसम्यग्दृष्टिदेशसर्वविरतग्रहः, सर्वाऽपि - नमस्कारादिभेदेन जघन्यादिप्रकारापि, आस्तामेका काचिदिति । तत्रापुनर्बन्धकस्य जघन्या तत्परिणामस्य विशुद्ध्यपेक्षया जघन्यत्वाद्, अविरतसम्यग्दृष्टेर्मध्यमा, तत्परिणामस्य विशुद्धिमङ्गीकृत्य मध्यमत्वात्, सामान्यविरतस्योत्कृष्टा तत्परिणामस्य तथाविधत्वादेवेति । अथवा अपुनर्बन्धकस्यापि त्रिधा प्रमोदरूपभावत्रैविध्यादेवमितरयोरपीति । अथा पुनर्बन्धका दीनामिति कस्मादुक्तम् ? मार्गाभिमुखादेरपि भावभेदसद्भावादित्यत्राह - 'शेषाणाम्' अपुनर्बन्धकादिव्यतिरिक्तानां सकृद्बन्धकमार्गाभिमुखमार्गपतिततदितरमिथ्यादृशां " इम त्ति इयमधिकृतभावभेदेन भेदवती (अन्या) तु स्यादपि, न नैव, यद् - यस्मात्, समये - सिद्धान्ते, भणितेतिशेषः, तेषां तद्योग्यताविकलत्वादिति गाथार्थः " [ पञ्चाशकटीका प. ५४] इत्थं च भाववन्दनायाः शुद्धद्रव्यवन्दनायाश्चाधिकारिणोऽपि एते त्रय एव, सकृद्बन्धकादीनां तु अशुद्धद्रव्यवन्दनैव, यतस्तत्रैव " एतेऽहिगारिणो इह, ण उ सेसा दव्वओ वि जं एसा । इअरी जोगाए, सेसाण उ अप्पहाण || १ || " [ पञ्चाशक ३ | ७] त्ति, कण्ठ्या । नवरं 'इयरीए 'त्ति इतरस्या भाववन्दनाया योग्यत्वेन या प्रधाना द्रव्यवन्दना साऽधिकारिणाम्, शेषाणां सकृद्बन्धकादीनां तु भाववन्दनाया अकारणत्वादप्रधानेतिभावः एवं च जघन्याद्येकैकस्या अपि चैत्यवन्दनाया अधिकारित्रयसंभवान्नवधा चैत्यवन्दनेति ज्ञेयम् इह च केचिन्मन्यन्ते - शक्रस्तवमात्रमेव वन्दनं श्रावकस्य युक्तम्, जीवाभिगमादिषु तन्मात्रस्यैव तस्य देवादिभिः कृतत्वेन प्रतिपादितत्वात्, ततस्तदाचरितप्रामाण्यात्तदधिकतरस्य च गणधरादिकृतसूत्रे
SR No.022042
Book TitleDharm Sangraha Part 04
Original Sutra AuthorN/A
AuthorPravin K Mota
PublisherGitarth Ganga
Publication Year2012
Total Pages218
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy