________________
૪૫
धर्मसंग्रह भाग-४ | दितीय अधिकार | PRI5-५१ अथवैकश्लोकादिरूपनमस्कारपाठपूर्वकनमस्क्रियालक्षणेन करणभूतेन, जातिनिर्देशाद् बहुभिरपि नमस्कारैः क्रियमाणा जघन्या स्वल्पा, पाठक्रिययोरल्पत्वात्, वन्दना भवतीति गम्यम् तत्र प्रणामश्च पञ्चधा"एकाङ्गः शिरसो नामे, स्याद् द्व्यङ्गः करयोर्द्वयोः । त्रयाणां नामने व्यङ्गः, करयोः शिरसस्तथा ।।१।। चतुर्णां करयोर्जान्वोर्नमने चतुरङ्गकः । शिरसः करयोर्जान्वोः, पञ्चाङ्गः पञ्चनामने ।।२।।” इति १॥
तथा दण्डकश्च-अरिहन्तचेइयाणमित्यादिश्चैत्यस्तवरूपः, स्तुतिः-प्रतीता, या तदन्ते दीयते, तयोर्युगलं-युग्ममेत एव वा युगलं मध्यमा, एतच्च व्याख्यानमिमां कल्पगाथामुपजीव्य कुर्वन्ति, तद्यथा“निस्सकडमनिस्सकडे, वावि चेइए सव्वहिं थुई तिण्णि । वेलं व चेइआणि व, नाउं एक्किक्किया वावि ।।१।।" [चेइअवंदण महाभास गा. १६४]
यतो दण्डकावसाने एका स्तुतिर्दीयते इति दण्डकस्तुतियुगलं भवति २।। तथा पञ्चदण्डकैःशक्रस्तव १ चैत्यस्तव २ नामस्तव ३ श्रुतस्तव ४ सिद्धस्तवाख्यैः ५ स्तुतिचतुष्टयेन स्तवनेन जय वीयरायेत्यादिप्रणिधानेन चोत्कृष्टा । इदं च व्याख्यानमेके
“तिण्णि वा कढई जाव, थुईओ तिसिलोइआ । ताव तत्थ अणुण्णायं, कारणेण परेण वा(वि) ।।१।।" [प्रवचनसारोद्धारे ४३९] इत्येतां कल्पगाथां 'पणिहाणं मुत्तसुत्तीए' इति च वचनमाश्रित्य कुर्वन्ति ३।। वन्दनकचूर्णावप्युक्तं“तं च चेइअवंदणं जहन्नमज्झिमुक्कोसभेअओ तिविहं, जओ भणिअंनवकारेण जहन्ना, दंडगथुइजुअलमज्झिमा णेया । संपुण्णा उक्कोसा, विहिणा खलु वंदणा तिविहा ।।१।।" तत्थ नवकारेण एगसिलोगोच्चारणओ पणामकरणेण जहण्णा, तहा अरिहंतचेइआणमिच्चाइदंडगं भणित्ता काउस्सग्गं पारित्ता थुई दिज्जइत्ति दंडगस्स थुइए अ जुअलेणं-दुगेणं मज्झिमा, भणिअंच कप्पे"निस्सकडमनिस्सकडे, वावि चेइए सव्वहिं थुई तिण्णि । वेलं व चेइआणि व, नाउं एक्केक्किआ वावि ।।१।।"