________________
४४
धर्मसंग्रह लाग-४ / द्वितीय अधिभार / PRTs-११ स्थाप्यः, अक्षतैश्चाखण्डै रौप्यसौवर्णैः शालेयैर्वा जिनपुरतो दर्पण १ भद्रासन २ वर्द्धमान ३ श्रीवत्स ४ मत्स्ययुग्म ५ स्वस्तिक ६ कुम्भ ७ नन्दावर्त्त ८ रूपाष्टमङ्गलानालेखयेत् । अन्यथा वा ज्ञानदर्शनचारित्राराधननिमित्तं सृष्ट्या पुञ्जत्रयेण पट्टादौ विशिष्टाक्षतान् पूगादिफलं च ढौकयेत्, नवीनफलागमे तु पूर्वं जिनस्य पुरतः सर्वथा ढौक्यम् । नैवेद्यमपि सति सामर्थ्य कूराद्यशन १ शर्करागुडादिपान २ फलादिखाद्य ३ ताम्बूलादिस्वाद्यान् ४ ढोकयेत् । नैवेद्यपूजा च प्रत्यहमपि सुकरा महाफला च धान्यस्य च विशिष्य, आगमेऽपि राद्धधान्यस्यैव प्रतिपादनाद्यत आवश्यकनियुक्ती समवसरणाधिकारे-'कीरइ बली' [ ] ति । निशीथेऽपि-'तओ पभावईदेवीए सव्वं बलिमाइ काउं भणिअं 'देवाहिदेवो वद्धमाणसामी तस्स पडिमा कीरउत्ति' वाहिओ कुहाडो, दुहा जायं, पिच्छइ सव्वालंकारविभूसिअं भगवओ पडिमं' [ ] निशीथपीठेऽपि बलित्ति असिवोवसमनिमित्तं कूरो किज्जई' [ ] महानिशीथेऽपि तृतीयाध्ययने 'अरिहंताणं भगवंताणं गंधमल्लपईवसंमज्जणोवलेवणविचित्तबलिवत्थधूवाईएहिं पूआसक्कारेहिं पइदिणमब्भच्चणं पकुव्वाणा तित्थुप्पणं (ण्णई) करामोत्ति [ ] ।
ततो गोशीर्षचन्दनरसेन पञ्चाङ्गुलितलैमण्डलालेखनादि पुष्पप्रकारारात्रिकादि गीतनृत्यादि च कुर्यात् । सर्वमप्येतदग्रपूजैव । यद्भाष्यम्
"गंधव्वनट्टवाइअलवणजलारत्तिआइ दीवाई । जं किच्चं तं सव्वंपि, ओअरई अग्गपूआए ।।१।।" [गा. २०५] इत्यग्रपूजा २।।
भावपूजा तु जिनपूजाव्यापारनिषेधरूपतृतीयनैषेधिकीकरणपूर्वं जिनाद्दक्षिणदिशि पुमान् स्त्री तु वामदिशि आशातनापरिहारार्थं जघन्यतोऽपि संभवे नवहस्तमानादसंभवे तु हस्तार्द्धमानाद् उत्कृष्टतस्तु षष्टिहस्तमानादवग्रहाबहिः स्थित्वा चैत्यवन्दनां विशिष्टस्तुत्यादिभिः कुर्यात् । आह च“तइआ उ भावपूजा, ठाउं चिइवंदणोचिए देसे । जहसत्ति चित्तथुइथुत्तमाइणा देववंदणयं ।।१।।" निशीथेऽपि-'सो उ गंधारसावओ थयथुईहिं थुणंतो तत्थ गिरिगुहाए अहोरत्त निवसिओ' [ ] तथा वसुदेवहिण्डौ-'वसुदेवो पच्चूसे कयसमत्तसावयसामाइआइनिअमो गहिअपच्चक्खाणो कयकाउसग्गथुइवंदणो' [ ] त्ति । एवमनेकत्र श्रावकादिभिरपि कायोत्सर्गस्तुत्यादिभिश्चैत्यवन्दना कृतेत्युक्तम् । सा च जघन्यादिभेदानिधा, यद्भाष्यम्“नमुक्कारेण जहन्ना, चिइवंदण मज्झ दंडथुइजुअला । पणदंडथुइचउक्कगथयपणिहाणेहिं उक्कोसा ।।१।।" [चैत्यवंदन मूलभाष्य गा. २३] व्याख्या-नमस्कारेण अञ्जलिबन्धशिरोनमनादिलक्षणप्रणाममात्रेण, यद्वा नमो अरिहंताणमित्यादिना,