SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ ४3 धर्मसंग्रह भाग-४ / द्वितीय अधिकार | Gls-११ कृतपूजाविधौ तु “सरस सुरहिचंदणेणं देवस्स दाहिणजाणुदाहिणखंधनिडालवामखंधवामजाणुलक्खणेसु पंचसु हिआएहिं सह छसु वा अंगेसु पूअं काऊण पच्चग्गकुसुमेहिं गंधव्वासेहिं च पूएइ" इत्युक्तम्, ततः सद्वर्णैः सुगन्धिभिः सरसैरभूपतितैर्विकाशिभिरशटितदलैः प्रत्यग्रैश्च प्रकीर्णैर्नानाप्रकारग्रथितैर्वा पुष्पैः पूजयेत्, पुष्पाणि च यथोक्तान्येव ग्राह्याणि । यतः “न शुष्कैः पूजयेद्देवं, कुसुमैर्न महीगतैः । न विशीर्णदलैः स्पृष्टै शुभै विकाशिभिः ।।१।। कीटकोशापविद्धानि, शीर्णपर्युषितानि च । वर्जयेदूर्णनाभेन, वासितं यदशोभितम् ।।२।। पूतिगन्धीन्यगन्धीनि, अम्लगन्धानि वर्जयेत् । मलमूत्रादिनिर्माणादुच्छिष्टानि कृतानि च ।।३।।" सति च सामर्थ्य रत्नसुवर्णमुक्ताभरणरौप्यसौवर्णपुष्पादिभिश्चन्द्रोदयादिविचित्रदुकूलादिवस्त्रैश्चाप्यलङ्कुर्याद्, एवं चान्येषामपि भाववृद्ध्यादिः स्यात् । यतः“पवरेहिं साहणेहिं, पायं भावोवि जायए पवरो । नय अन्नो उवओगो, एएसि सयाण लट्ठयरो ।।१।।" [सम्बोधप्र. देवाधि. १७०, पञ्चाशक ४ ॥१६] त्ति । .. श्राद्धविधिवृत्तौ तु-'ग्रन्थिम १ वेष्टिम २ पूरिम ३ सङ्घातिम ४ रूपचतुर्विधप्रधानाम्लानविध्यानीतशतपत्रसहस्रपत्रजातीकेतकचम्पकादिविशिष्टपुष्पैर्माला १ मुकुट २ शिरस्क ३ पुष्पगृहादि विरचये[प. ५४]दितिविशेषः । __चन्दनपुष्पादिपूजा च तथा कार्या यथा जिनस्य चक्षुर्मुखाच्छादनादि न स्यात् सश्रीकतातिरेकश्च स्यात्, तथैव द्रष्ट्रणां प्रमोदवृद्ध्यादिसंभवात् । अन्योऽप्यङ्गपूजाप्रकारः कुसुमाञ्जलिमोचनपञ्चामृतप्रक्षालनशुद्धोदकधाराप्रदानकुङ्कुमकर्पूरादिमिश्रचन्दनविलेपनाङ्गीविधानगोरोचनमृगमदादिमयतिलकपत्रभङ्ग्यादिकरणप्रमुखो भक्तिचैत्यप्रतिमापूजाधिकारे वक्ष्यमाणो यथास्वं ज्ञेयः तथा जिनस्य हस्ते सौवर्णबीजपूरनालिकेरपूगीफलनागवल्लीदलनाणकमुद्रिकादिमोचनं कृष्णागुर्वादिधूपोत्क्षेपसुगन्धवासप्रक्षेपाद्यपि सर्वमङ्गपूजायामन्तर्भवति । तथोक्तं बृहद्भाष्ये"ण्हवणविलेवणआहरणवत्थफलगंधधूवपुप्फेहिं । कीरइ जिणंगपूआ, तत्थ विही एस नायव्वो ।।१।।" त्ति । तत्र धूपो जिनस्य वामपार्श्वे कार्य इत्यग्रपूजा १।। ततो घृतपूर्णप्रदीपैः शाल्यादितन्दुलाक्षतैर्बीजपूरादिनानाफलैः सर्वनैवेद्यैर्निर्मलोदकभृतशङ्खादिपात्रैश्च पूजयेत् । तत्र प्रदीपो जिनस्य दक्षिणपार्श्वे
SR No.022042
Book TitleDharm Sangraha Part 04
Original Sutra AuthorN/A
AuthorPravin K Mota
PublisherGitarth Ganga
Publication Year2012
Total Pages218
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy