________________
૨૫
धर्मसंग्रह भाग-४ | द्वितीय मधिभार / -५१ “पूआए कायवहो, पडिकुट्ठो सो उ किंतु जिणपूआ । सम्मत्तसुद्धिहेउत्ति भावणीआ उ णिरवज्जा ।।१।।"
अन्यत्राप्युक्तं-'द्रव्यस्नानादिके यद्यपि षट्कायोपमर्दादिका काचिद्विराधना स्यात्, तथापि कूपोदाहरणेन श्रावकस्य द्रव्यस्तवः कर्तुमुचितः । यदाहुः
“अकसिणपवत्तगाणं, विरयाविरयाण एस खलु जुत्तो ।। . संसारपयणुकरणे, दव्वथए कूवदिटुंतो ।।१।।" [पञ्चाशकप्र. ४।४२]
इदमुक्तं भवति-यथा कूपखननं श्रमतृष्णाकर्दमोपलेपादिदोषदुष्टमपि जलोत्पत्तावनन्तरोक्तदोषानपोह्य स्वोपकाराय परोपकाराय च किल भवति, इत्येवं स्नानादिकमप्यारम्भदोषमपोह्य शुभाध्यवसायोत्पादनेन विशिष्टाशुभकर्मनिर्जरणपुण्यबन्धकारणं भवतीति । इह केचिन्मन्यन्ते-पूजार्थस्नानादिकरणकालेऽपि निर्मलजलकल्पशुभाध्यवसायस्य विद्यमानत्वेन कर्दमलेपादिकल्पपापाभावाद्विषममिदमित्थमुदाहरणम्, ततः किलेदमित्थं योजनीयं-यथा कूपखननं स्वपरोपकाराय भवति, एवं स्नानपूजादिकं करणानुमोदनद्वारेण स्वपरयोः पुण्यकारणं स्यादिति । न च तदागमाननु (मानु) पाति, यतो धर्मार्थप्रवृत्तावप्यारम्भजनितस्याल्पपापस्येष्टत्वात् । कथमन्यथा भगवत्यामुक्तम्
“तहारूवं समणं वा माहणं वा पडिहयपच्चक्खायपावकम्मं अफासुएणं अणेसणिज्जेणं असणपाणखाइमसाइमेणं पडिलाभेमाणे भंते! किं कज्जइ? गो० ! अप्पे पावे कम्मे बहुअरिआ से णिज्जरा कज्जइ" । [ ]
तथा ग्लानप्रतिचरणानन्तरं पञ्चकल्याणकप्रायश्चित्तप्रतिप्रत्तिरपि कथं स्यादिति पञ्चाशकवृत्तौ [४।११,] तत्सूत्रमपि"पहाणाइवि जयणाए, आरम्भवओ गुणाय णिअमेणं । सुहभावहेउओ खलु, विणणेअं कूवणाएणं ।।१।।" [पञ्चाशकप्र. ४।१०] इत्यलं प्रसङ्गेन ।
एवं च देवपूजाद्यर्थमेव गृहस्थस्य द्रव्यस्नानमनुमतम्, तेन द्रव्यस्नानं पुण्यायेति यत्प्रोच्यते तन्निरस्तं मन्तव्यम्, भावस्नानं च शुभध्यानरूपम्, यतः"ध्यानाम्भसा तु जीवस्य, सदा यच्छुद्धिकारणम् । . मलं कर्म समाश्रित्य, भावस्नानं तदुच्यते ।।१।।" [अष्टकप्रकरणे २।६] इति । कस्यचित् स्नाने कृतेऽपि यदि गडुक्षतादि स्रवति, तदा तेनाङ्गपूजां स्वपुष्पचन्दनादिभिः परेभ्यः कारयित्वाऽग्रपूजा भावपूजा च स्वयं कार्या, वपुरपावित्र्ये प्रत्युताशातनासम्भवेन स्वयमङ्गपूजायां निषिद्धत्वाद् । उक्तं च