________________
૨૪
धर्मसंग्रह भाग-४ द्वितीय मधिकार| दो-१
__ “मौनी वस्त्रावृत्तः कुर्यादिनसन्ध्याद्वयेऽपि च । उदङ्मुखः शकृन्मूत्रे, रात्रौ याम्याननः पुनः ।।१।।" इति । दन्तधावनमपि“अवकाग्रन्थिसत्कूर्चे, सूक्ष्माग्रं च दशाङ्गुलम् । कनिष्ठाग्रसमस्थौल्यं, ज्ञातवृक्षं सुभूमिजम् ।।१।। कनिष्ठिकानामिकयोरन्तरे दन्तधावनम् । आदाय दक्षिणां दंष्ट्रां, वामां वा संस्पृशस्तले ।।२।। तल्लीनमानसः स्वस्थो, दन्तमांसव्यथां त्यजन् । उत्तराभिमुखः प्राचीमुखो वा निश्चलासनः ।।३।।" इत्यादिनीतिशास्त्रोक्तविधिना विधेयम् । गण्डूषोऽपि“अभावे दन्तकाष्ठस्य, मुखशुद्धिविधिः पुनः ।। कार्यो द्वादशगण्डूषैर्जिह्वोल्लेखस्तु सर्वदा ।।१।।" इति विधिना कार्योऽप्रत्याख्यानिना, प्रत्याख्यानिनस्तु दन्तधावनादि विनापि शुद्धिरेव, तपसो महाफलत्वात् इदं च द्रव्यस्नानं वपुःपावित्र्यसुखकरत्वादिना भावशुद्धिहेतुः । उक्तं चाष्टके
“जलेन देहदेशस्य, क्षणं यच्छुद्धिकारणम् । प्रायोऽन्यानुपरोधेन, द्रव्यस्नानं तदुच्यते ।।१।।" [स्नानाष्टके गा. २] .
देहदेशस्य त्वङ्मात्रस्यैव, क्षणं नतु प्रभूतकालम्, प्रायः शुद्धिहेतुर्नत्वेकान्तेन, तादृग्रोगग्रस्तस्य क्षणमप्यशुद्धेः, प्रक्षालनार्हमलादन्यस्य मलस्य कर्णनासाद्यन्तर्गतस्यानुपरोधेन-अप्रतिषेधेन यद्वा प्रायो जलादन्येषां प्राणिनामनुपरोधेन-अव्यापादनेन द्रव्यस्नानं-बाह्यस्नानमित्यर्थः । “कृत्वेदं यो विधानेन, देवतातिथिपूजनम् । करोति मलिनारम्भी, तस्यैतदपि शोभनम् ।।२।।" [स्नानाष्टके गा. ३] विधानेन-विधिना, अतिथिः साधुः, मलिनारम्भी गृहस्थः । द्रव्यस्नानस्य शोभनत्वे हेतुमाह"भावशुद्धेनिमित्तत्वात्तथानुभवसिद्धितः । कथञ्चिद्दोषभावेऽपि, तदन्यगुणभावतः ।।३।।” युग्मम् [स्नानाष्टके गा.४] दोषोऽप्कायविराधनादिः तस्माद् दोषादन्यो गुणः-सद्दर्शनशुद्धिलक्षणः, यदुक्तम्