________________
धर्मसंग्रह भाग-४ / द्वितीय अधिकार / श्लोड-५१
क्रियाकारकसंबन्धः । तत्र जिनपूजाया उत्सर्गतः उचितः कालः सन्ध्यात्रयरूपः, अपवादतस्तु वृत्तिक्रिया विरोधेन आभिग्रहिकः । यत उक्तं पञ्चाशके
" सो पुण इह विण्णेओ, संझाओ तिण्णि ताव ओहेणं ।
वित्तिकिरि आऽविरुद्धो, अहवा जो जस्स जावइओ ।। १ ।। " [ ४।५ ]
अस्या अपरार्द्धव्याख्या-वृत्तिक्रिया :- राजसेवा वणिज्यादीनि कर्माणि, तासामविरुद्धः - अबाधको वृत्तिक्रियाऽविरुद्धः, अथवेति विकल्पार्थः, ततश्चापवादत, इत्युक्तम् भवति, यः पूर्वाह्णादिर्यस्य-राजसेवक-वाणिजकादेः ‘जावइओ’त्ति यत्परिमाणो यावान् स एव यावत्को - मुहूर्त्तादिपरिमाणः, स तस्य तावत्कः पूजाकालो भवति, न पुनः सन्ध्यात्रयरूप एवेति' [ ]
सम्यग् स्नात्वा संस्नाप्य चेत्यत्र सम्यक्पदाभ्यां सकलोऽपि स्नानादिविधिर्जिनप्रतिमास्नपनादिविधिश्च सूचितः । तत्र स्नानविधिः- उत्तिङ्गपनककुन्थ्वाद्यसंसक्तवैषम्यशुषिरादिदोषादूषितभूमौ परिमितवस्त्रपूतजलेन संपातिमसत्त्वरक्षणादियतनारूपः, उक्तं च दिनकृत्ये
" तसाइजीवरहिए, भूमिभागे विसुद्धए ।
फासुणं तु नीरेणं, इअरेणं गलिएण उ । । १ । ।
काऊणं विहिणा ण्हाणं” [ श्राद्धदिनकृत्ये गा. २३-४] ति ।
तत्र विधिना-परिमितोदकसंपातिमसत्त्वरक्षणादियतनयेति तद्वृत्तिलेश: [ प ४०] । पञ्चाशकेऽपि“भूमीपेहणजलछाणणाइजयणा उ होइ पहाणाओ ।
एत्तो विसुद्धभावो, अणुहवसिद्धो च्चिअ बुहाणं ||१ ।। " [ ४ ।११]
२३
व्यवहारशास्त्रे तु
“नग्नार्तः प्रोषितायातः; सचेलो भुक्तभूषितः ।
नैव स्नायादनुव्रज्य बन्धून् कृत्वा च मङ्गलम् ||१||" इत्यादि ।
स्नानं च द्रव्यभावाभ्यां द्विधा, तत्र द्रव्यस्नानं जलेन शरीरक्षालनम्, तच्च देशतः सर्वतो वा, तत्र देशतो मलोत्सर्गदन्तधावनजिह्वालेखनकरचरणमुखादिक्षालनगण्डूषकरणादि, सर्वतस्तु सर्वशरीरक्षालनमिति तत्र च मलोत्सर्गो मौनेन निरवद्यार्हस्थानादिविधिनैवोचितः, यतः
.." मूत्रोत्सर्गं मलोत्सर्गं, मैथुनं स्नानभोजनम् ।
सन्ध्यादिकर्म पूजां च कुर्याज्जापं च मौनवान् ।।१।।"
विवेकविलासेऽपि -