________________
૨૬
“निःशूकत्वादशौचेऽपि, देवपूजां तनोति यः । पुष्पैर्भूपतितैर्यश्च, भवतः श्वपचाविमौ ।।१।। " इति ।
तत्र स्नानानन्तरं पवित्रमृदुगन्धकाषायिकाद्यंशुकेनाङ्गरूक्षणं तथा पोतिकमोचनपवित्रवस्त्रान्तरपरिधानादियुक्त्या क्लिन्नाङ्घ्रिभ्यां भूमिमस्पृशन् पवित्रस्थानमागत्योत्तरामुखः संव्ययते दिव्यं नव्यमकीलितं श्वेतांशुकद्वयम्, यतः
“विशुद्धिं वपुषः कृत्वा, यथायोग्यं जलादिभिः । धौतवस्त्रे वसीत द्वे, विशुद्धे धूपधूपिते । । १ । । "
धर्मसंग्रह भाग-४ / द्वितीय अधिकार / श्लो-५१
लोकेऽप्युक्तम्
" न कुर्यात्सन्धितं वस्त्रं, देवकर्मणि भूमिप ! । न दग्धं नतु वै च्छिन्नं, परस्य तु न धारयेत् ।। १ ।।
कटिस्पृष्टं तु यद्वस्त्रं पुरीषं येन कारितम् । समूत्रमैथुनं वाऽपि तद्वस्त्रं परिवर्जयेत् ।।२।।
एकवस्त्रो न भुञ्जीत न कुर्याद्देवतार्चनम् । न कञ्चुकं विना कार्या, देवार्चा स्त्रीजनेन तु । । ३ । । '
एवं हि पुंसां वस्त्रद्वयं स्त्रीणां च वस्त्रत्रयं विना देवपूजादि न कल्पते धौतवस्त्रं च मुख्यवृत्त्याऽतिविशिष्टं क्षीरोदकादिकं श्वेतमेव कार्यम्, उदायननृपराज्ञीप्रभावतीप्रभृतीनामपि धौतांशुकं श्वेतं निशीथादावुक्तम्, दिनकृत्यादावपि 'सेअवत्थनिअंसणो' [ श्रा. दि. गा. २४ |त्ति । क्षीरोदकाद्य - शक्तावपि दुकूलादिधौतिकं विशिष्टमेव कार्यम् । यदुक्तं पूजाषोडशके 'सितशुभवस्त्रेण' [ ९१५/
इति । तद्वृत्तिर्यथा - 'सितवस्त्रेण च शुभवस्त्रेण च, शुभमिह शुभ्रादन्यदपि पट्टयुग्मादि रक्तपीतादिवर्णं परिगृह्यत' | श्री यशोभद्रसूरिकृतवृत्तौ ९।५] इति । 'एगसाडिअं उत्तरासंगं करेइ' इत्यागमप्रामाण्यादुत्तरीयमखण्डमेव कार्यम्, नतु खण्डद्वयादिरूपं तच्च वस्त्रद्वयं भोजनादिकार्ये न व्यापार्य, प्रस्वेदादिनाऽशुचित्वापत्तेः व्यापारणानुसारेण च पुनः पुनर्धावनधूपनादिना पावनीयम्, पूजाकार्येऽपि स्वल्पवेलमेव व्यापार्यम्, परसत्कमपि च प्रायो वर्ज्यं, विशिष्य च बालवृद्धस्त्र्यादिसत्कम्, न च ताभ्यां प्रस्वेदश्लेष्मादि स्फेटनीयम्, व्यापारितवस्त्रान्तरेभ्यश्च पृथग् मोच्यमिति 'सम्यग् स्नात्वे 'त्यंश; प्रदर्शितः । । ६१ । ।.
टीडार्थ :
'उचिते' प्रदर्शितः । उचित आजमां निनयुभना योग्य अवसरमां, सभ्य = विधिथी, स्वयं
.....