________________
धर्मसंग्रह भाग-४ | द्वितीय अधिकार | दो-५०
नमस्कारपरावर्त्तनविधिस्त्वेवं योगशास्त्रेऽष्टमप्रकाशे - “अष्टपत्रे सिताम्भोजे, कर्णिकायां कृतस्थितिम् । आद्यं सप्ताक्षरं मन्त्रं, पवित्रं चिन्तयेत्ततः ।।१।। सिद्धादिकचतुष्कं च, दिक्पत्रेषु यथाक्रमम् ।
चूलापादचतुष्कं च, विदिक्पत्रेषु चिन्तयेत् ।।२।। विशुद्ध्या चिन्तयन्नस्य, शतमष्टोत्तरं मुनिः । भुञ्जानोऽपि लभेतैव, चतुर्थतपसः फलम् ।।३।।" [गा. ३३-५] मुख्यफलं तु स्वर्गापवर्गावेव, यतस्तत्रैव - : “प्रवृत्तिहेतुरेवैतदमीषां कथितं फलम् । फलं स्वर्गापवर्गौ तु, वदन्ति परमार्थतः ।।१।।" [योगशास्त्रे ८१४०] तथागणनाशक्तौ करजापो नन्दावर्त्तशङ्खावर्त्तादिरपि बहुफलः उक्तं च - • “करआवत्ते जो पंचमंगला साहुपडिमसंखाए । णववारा आवत्तइ, छलंति तं नो पिसायाई ।।१।।" [नमस्कारपञ्चविंशति १६] बन्धनादिकष्टे तु विपरीतशङ्खावदिनाऽक्षरैः पदैर्वा विपरीतनमस्कारं लक्षादि जपेत्, सद्यः क्लेशनाशः स्यात्, यद्यपि मुख्यवृत्त्या निर्जरायै एव सम्यग्दृशां गणनमुचितम्, तथापि तत्तद्रव्यक्षेत्र-काल-भावसामग्रीवशेनैहिकाद्यर्थमपि स्मरणं कदाचिदुपकारीति शास्त्रे उपदिष्टं दृश्यते, यतो योगशास्त्रे“पीतं स्तम्भेऽरुणं वश्ये, क्षोभणे विद्रुमप्रभम् । कृष्णं विद्वेषणे ध्यायेत्, कर्मघाते शशिप्रभम् ।।१।।" [८।३१] इति ।
करजापाद्यशक्तस्तु रत्नरुद्राक्षादिजपमालया स्वहृदयसमश्रेणिस्थया परिधानवस्त्रचरणादावलगन्त्या मेर्वनुल्लङ्घनादिविधिना जपेत्, यतः
“अगुल्यग्रेण यज्जप्तं, यज्जप्तं मेरुलङ्घने । व्यग्रचित्तेन यज्जप्तं, तत्प्रायोऽल्पफलं भवेत् ।।१।। सङ्खलाद्विजने भव्यः, सशब्दान्मौनवान् शुभः । मौनजान्मानसः श्रेष्ठो, जापः श्लाघ्यः परः परः ।।२।।" श्रीपादलिप्तसूरिकृतप्रतिष्ठापद्धतावप्युक्तम् -