________________
धर्मसंग्रह भाग-४ / द्वितीय मधिकार | CIS-१० दोडार्थ :
નમસ્કારથી નિદ્રાનો ત્યાગ, સ્વદ્રવ્યાદિની વિચારણા, સામાયિક આદિનું કરણ, વિધિથી ચૈત્યપૂજન શ્રાવકનો વિશેષથી ગૃહસ્થઘર્મ છે. ll૧૦I. टोs:
'नमस्कारेण' सकलकल्याणपुरपरमश्रेष्ठिभिः परमेष्ठिभिरधिष्ठितेन 'नमो अरिहंताण'मित्यादिप्रतीतरूपेण 'अवबोधो' निद्रापरिहारः, तत्पाठं पठनिद्रां जह्यादित्यर्थः, अयं विशेषतो गृहिधर्मो भवतीत्येवमग्रेऽप्यन्वयः । ..
तथा स्वस्मिन् आत्मनि, द्रव्यादेः-द्रव्यक्षेत्रकालभावानामुपयोजनम् उपयोगकरणम्, यथा-द्रव्यतः कोऽहम् ? श्राद्धोऽन्यो वा, के मम गुरव इत्यादि, क्षेत्रत:-कुत्र? ग्रामे नगरे स्वगृहेऽन्यगृहे वा उपरि अधो वा वसामीति, कालतो रात्रिर्वा दिनं वेत्यादि, भावतः किंकुलः? किंधर्मः?, किंव्रतो वाऽस्मीत्यादिस्मरणम् ।
अत्रायं विधिनिंद्राच्छेदे, श्रावकेण तावत्स्वल्पनिद्रेण भाव्यं यथा पाश्चात्यरात्रौ स्वयमेवोत्थीयते, तथा सति ऐहिकामुष्मिककार्यसिद्ध्यादयोऽनेकगुणाः न चेदेवं तदा पञ्चदशमुहूर्ता रजनी, तस्यां जघन्यतोऽपि चतुर्दशे ब्राम्ये मुहूर्ते नमस्कारं स्मरन् उत्तिष्ठेत्, ततो द्रव्याधुपयोगं करोति, तथापि निद्रानुपरमे नासानिश्वासरोधं करोति, ततो विनिद्रः कायिकी चिन्तां करोति, कासितादिशब्दमपि उच्चस्वरेण न कुर्यात्, हिंसकजीवजागरणेन हिंसाद्यनर्थप्रवृत्तेः उत्तिष्ठश्च वहमाननासिकापक्षीयं पादं प्रथमं भूम्यां दद्यादिति नीतिः, अत्र निद्रात्यागसमये आत्यन्तिकतबहुमानकार्यभूतं मङ्गलार्थं नमस्कारम् अव्यक्तवर्णं स्मरेदिति विशेषः, यदाहुः“परमेट्ठिचिंतणं माणसंमि सिज्जागएण कायव्वं । सुत्ताविणयपवित्ती, निवारिआ होइ एवं तु ।।१।।"
अन्ये तु न सा काचिदवस्था यस्यां नमस्कारस्यानधिकार इति मन्वाना अविशेषेणैव नमस्कारपाठमाहुः, एतन्मतद्वयमाद्यपञ्चाशकवृत्त्यादावुक्तम् श्राद्धदिनकृत्ये त्वेवमुक्तम् - "सिज्जाठाणं पमुत्तूणं, चिट्ठिज्जा धरणीअले । भावबन्धुं जगन्नाहं, नमुक्कारं तओ पढे ।।१।।" [गा. ९] यतिदिनचर्यायां चैवम् - 'जामिणिपच्छिमजामे, सव्वे जग्गंति बालवुड्डाई । . परमिट्ठिपरममंतं, भणंति सत्तट्ठवाराओ ।।१।। [गा. ३] ......
..