________________
ધર્મસંગ્રહ ભાગ-૪ / દ્વિતીય અધિકાર | શ્લોક-૬૧ विगतमलो विमलानि वा ज्ञानादीन्यस्येति विमलः तथा गर्भस्थे मातुर्मतिस्तनुश्च विमला जातेति
विमलः | १३ |
अनन्तकर्मांशान् जयति, अनन्तैर्वा ज्ञानादिभिर्जयति इति अनन्तजित् तथा गर्भस्थे जनन्या अनन्तरत्नदाम दृष्टम् जयति च त्रिभुवनेऽपीति अनन्तजित्, भीमो भीमसेन
इति न्यायादनन्त इति । १४ ।
दुर्गतौ प्रपतन्तं सत्त्वसङ्घातं धारयतीति धर्मः तथा गर्भस्थे जननी दानादिधर्मपरा जातेति धर्मः
। १५ ।
शान्तियोगात्तदात्मकत्वात्तत्तत्कर्तृत्वाद्वा शान्तिरिति तथा गर्भस्थे पूर्वोत्पन्नाशिवशान्तिरभूदिति शान्तिः
।१६।
कुः पृथ्वी तस्यां स्थितवानिति निरुक्तात्कुन्थुः तथा गर्भस्थे रत्नानां कुन्थुराशिं दृष्टवतीति कुन्थुः
। १७ ।
" सर्वोत्तमे महासत्त्वकुले य उपजायते । तस्याभिवृद्धये वृद्धैरसावर उदाहृतः ।।१।। " इतिवचनादरः तथा गर्भस्थे जनन्या स्वप्ने रत्नमयोऽरो दृष्टः इति अरः । १८ । परीषहादिमल्लजयात् निरुक्तात् मल्लिः तथा गर्भस्थे मातुः सुरभिकुसुममाल्यशयनीयदोहदो देवतया पूरित इति मल्लिः । १९ ।
मन्यते जगतस्त्रिकालावस्थामिति मुनिः, 'मनेरुदेतौचास्य वा' [ श्रीसि० उणादिसू. ६१२] इति 'इ'प्रत्यये उपान्तस्योत्त्वम्, शोभनानि व्रतान्यस्येति सुव्रतः, मुनिश्चासौ सुव्रतश्च मुनिसुव्रतः, तथा गर्भस्थे जननी मुनिवत्सुव्रता जातेति मुनिसुव्रतः । २० ।
१५०
परीषहोपसर्गादिनामनाद् 'नमेस्तु वा' इति विकल्पेनोपान्त्यस्येकाराभावपक्षे नमः, तथा गर्भस्थे भगवति परचक्रनृपैरपि प्रणतिः कृतेति नमिः | २१ |
धर्मचक्रस्य नेमिवन्नेमिः, तथा गर्भस्थे भगवति जनन्या रिष्टरत्नमयो महानेमिर्दृष्ट इति रिष्टनेमिः, अपश्चमादिशब्दवत् नञ्पूर्वत्वेऽरिष्टनेमिः | २२ ।
पश्यति सर्वभावानिति निरुक्तात्पार्श्वः, तथा गर्भस्थे जनन्या निशि शयनीयस्थया अन्धकारे सर्पो दृष्ट इति गर्भानुभावोऽयमिति मत्वा पश्यतीति पार्श्वः, पार्श्वोऽस्य वैयावृत्त्यकरस्तस्य नाथः पार्श्वनाथः भीमो भीमसेन इतिवत्पार्श्वः | २३ |