________________
धर्मसंग्रह भाग - ४ / द्वितीय अधिकार / लो-५१
सिञ्चति देशनाजलेन दुःखाग्निना दग्धं जगदिति अस्यान्वर्थः, 'वृषभे वा वा' [ श्रीसि० ८-१-१३२] इति वकारेण ऋतउत्त्वे अस्यापि उसहो विशेषतस्तु ऊर्वोर्वृषभो लाञ्छनमभूद्भगवतः, जनन्या च चतुर्दशानां स्वप्नानां आदावृषभो दृष्टः, तेन ऋषभो वृषभो वा । १ ।
परीषहादिभिरनिर्जित इत्यजितः तथा गर्भस्थे भगवति जननी द्यूते राज्ञा न जितेत्यजितः । २ । सम्भवन्ति प्रकर्षेण भवन्ति चतुस्त्रिंशदतिशयगुणा अस्मिन्निति सम्भवः, शं सुखं भवत्यस्मिन् स्तुते इति शम्भवो वा, तत्र 'शषोः सः ' [ श्रीसि० ८-१-२६०] इति सत्वे सम्भवः तथा गर्भागतेऽप्यस्मिन्नभ्यधिकसस्यसम्भवात्सम्भवः । ३ ।
अभिनन्द्यते देवेन्द्रादिभिरित्यभिनन्दनः, तथा गर्भात्प्रभृत्येवाभीक्ष्णं शक्राभिनन्दनादभिनन्दनः
।४।
१५०
सुशोभना मतिरस्येति सुमतिः, तथा गर्भस्थे जनन्याः सुनिश्चिता मतिरभूदिति सुमतिः । ५ । निष्पङ्कतामङ्गीकृत्य पद्मस्येव प्रभा यस्यासौ पद्मप्रभः, तथा पद्मशयनदोहदो मातुर्देवतया पूरित इति, पद्मवर्णश्च भगवानिति पद्मप्रभः | ६ |
शोभनानि पार्श्वान्यस्येति सुपार्श्वः, तथा गर्भस्थे भगवति जनन्यपि सुपार्श्वा जातेति सुपार्श्वः
।७।
चन्द्रस्येव प्रभा ज्योत्स्ना सौम्यलेश्याविशेषोऽस्येति चन्द्रप्रभः, तथा देव्याश्चन्द्रपानदोहदोऽभूच्चन्द्रसमवर्णश्च भगवानिति चन्द्रप्रभः ।८ ।
शोभन विधिः सर्वत्र कौशलमस्येति सुविधिः, तथा गर्भस्थे भगवति जनन्यप्येवमिति सुविधिः । पुष्पकलिकामनोहरदन्तत्वात् पुष्पदन्त इति द्वितीयं नाम । ९ ।
सकलसत्त्वसन्तापहरणात् शीतलः, तथा गर्भस्थे भगवति पितुः पूर्वोत्पन्नोऽचिकित्स्यपित्तदाहो जननीकरस्पर्शादुपशान्त इति शीतलः | १० |
सकलभुवनस्यापि प्रशस्यतमत्वेन श्रेयान् श्रेयांसावंसावस्येति पृषोदरादित्वाच्छ्रेयांसो वा तथा गर्भस्थेऽस्मिन् केनाप्यनाक्रान्तपूर्वा देवताधिष्ठितशय्याजनन्या आक्रान्तेति श्रेयो जातमिति श्रेयांसः
। ११ ।
वसवो देवविशेषास्तेषां पूज्यो वसुपूज्यः, प्रज्ञादित्वादणि [ श्रीसि० प्रज्ञादिभ्योऽण् ७-२-१६५ ] वासुपूज्यः तथा गर्भस्थेऽस्मिन् वसु हिरण्यं तेन वासवो राजकुलं पूजितवानिति वासुपूज्यः, वसुपूज्यस्य राज्ञोऽयमिति वा 'तस्येदम्' [ श्रीसि० ६-३-१६०] इत्यणि वासुपूज्यः ।१२।