________________
૧૫૮
ધર્મસંગ્રહ ભાગ-૪ | દ્વિતીય અધિકાર | શ્લોક-૬૧ यत्र चैत्यवन्दनां कुर्वन्नस्ति तत्र यस्य भगवतः सन्निहितं स्थापनारूपं तस्य स्तुतिं पठति अथ बहवस्तत एक एव स्तुतिं पठति, अन्ये तु कायोत्सर्गस्थिता एव शृण्वन्ति, यावत् स्तुतिसमाप्तिः, ततः सर्वेऽपि नमस्कारेण पारयन्तीति ।
तदन्तरमेतस्यामेवावसर्पिण्यां ये भारते वर्षे तीर्थकृतोऽभूवन् तेषामेकक्षेत्रनिवासादिना आसन्नोपकारित्वेन कीर्त्तनाय चतुर्विंशतिस्तवं पठति पठन्ति वा -
"लोगस्स उज्जोयगरे, धम्मतित्थयरे जिणे ।
अरहंते कित्तइस्सं, चउवीसं पि केवली || १।।”
‘अरहन्ते' इति विशेष्यपदम्, अर्हत उक्तनिर्वचनान्, कीर्त्तयिष्ये नामोच्चारणपूर्वकं स्तोष्ये ते च राज्याद्यवस्थासु द्रव्यार्हन्तो भवन्तीति भावार्हत्त्वप्रतिपादनायाह 'केवलिनः' इति, उत्पन्नकेवलज्ञानान् भावार्हत इत्यर्थः, अनेन ज्ञानातिशय उक्तः, तत्सङ्ख्यामाह - 'चतुर्विंशतिम्' अपिशब्दादन्यानपि किंविशिष्टान् ? 'लोकस्योद्योतकरान्' लोक्यते= प्रमाणेन दृश्यत इति लोकः = पञ्चास्तिकायात्मकस्तस्योद्योतकरणशीलान्, केवलालोकप्रदीपेन सर्वलोकप्रकाशकरणशीलानित्यर्थः । ननु केवल इत्यनेनैव गतार्थमेतत्, लोकोद्योतकरणशीला एव हि केवलिनः, सत्यम् विज्ञानाद्वैतनिरासेनोद्योतकादुद्योत्यस्य भेददर्शनार्थम्, लोकोद्योतकरत्वं च तत्श्रावकानामुपकाराय, न चानुपकारिणः कोऽपि स्तौतीति उपकारकत्वप्रदर्शनायाह- 'धर्मतीर्थकरान्, धर्म उक्तस्वरूपः, तीर्यतेऽनेनेति तीर्थम्, धर्मप्रधानं तीर्थं धर्मतीर्थम्, धर्मग्रहणाद् द्रव्यतीर्थस्य नद्यादेः शाक्यादिसम्बन्धिनश्चाधर्मप्रधानस्य परिहारः, तत्करणशीला धर्मतीर्थकरास्तान्, सदेवमनुजासुरायां पर्षदि सर्वभाषापरिणामिन्या वाच धर्मतीर्थप्रवर्त्तकानित्यर्थः, अनेन पूजातिशयो वागतिशयश्चोक्तः, अपायापगमातिशयमाह 'जिनान्' रागद्वेषादिजेतृनित्यर्थः । यदुक्तं - 'कीर्त्तयिष्यामी 'ति तत्कीर्त्तनं कुर्वन्नाह -
“उसभमजियं च वंदे, संभवमभिनंदणं च सुमहं च । पउमप्पहं सुपासं, जिणं च चंदप्पहं वंदे । । २ । । सुविहिं च पुप्फदंतं, सीयल- सिज्जंस- वासुपुज्जं च । विमलमणंतं च जिणं, धम्मं संतिं च वंदामि । । ३ । । कुंथुं अरं च मल्लि, वंदे मुणिसुव्वयं नमिजिणं च । वंदामि रिट्ठनेमिं, पासं तह वद्धमाणं च । । ४ । । "
समुदायः सुगमार्थः पदार्थस्तु विभज्यते स च सामान्यतो विशेषतश्च । तत्र सामान्यतः ऋषति गच्छति परमपदमिति ऋषभः, 'उदत्वादी' [ श्रीसि० ८-१-१३१] इत्युत्त्वे उसहो वृषभ इत्यपि, वर्षति