________________
धर्मसंग्रह भाग-3 / द्वितीय अधिकार | CIS-3७ भवति, ऋद्धिमाननृद्धिकश्च योऽसावनृद्धिकः स चतुर्षु स्थानेषु सामायिकं करोति, जिनगृहे, साध्वन्तिके, पौषधशालायाम्, स्वगृहे वा, यत्र वा विश्राम्यति निर्व्यापारो वा आस्ते तत्र च यदा साधुसमीपे करोति तदाऽयं विधिः-यदि कस्माच्चिदपि भयं नास्ति, केनचिद्विवादो नास्ति, ऋणं वा न धारयति, मा भूत्तत्कृताकर्षणापकर्षणनिमित्तः सङ्क्लेशः, तदा स्वगृहेऽपि सामायिकं कृत्वा ईर्यां शोधयन् सावद्यां भाषां परिहरन् काष्ठलेष्ट्वादिना यदि कार्य तदा तत्स्वामिनमनुज्ञाप्य प्रतिलिख्य प्रमाय॑ च गृह्णन् खेलसिङ्घाणकादींश्चाविवेचयन् विवेचयंश्च स्थण्डिलं प्रत्यवेक्ष्य प्रमृज्य च पञ्चसमितिसमितस्त्रिगुप्तिगुप्तः साध्वाश्रयं गत्वा साधूनमस्कृत्य सामायिकं करोति ।"
तत्सूत्रं यथा - 'करेमि भंते! सामाइअं सावज्जं जोगं पच्चक्खामि जाव साहू पज्जुवासामि दुविहं तिविहेणं मणेणं वायाए कारणं न करेमि न कारवेमि तस्स भंते! पडिक्कमामि निंदामि गरिहामि अप्पाणं वोसिरामि' त्ति ।
अस्यार्थः-'करेमि' अभ्युपगच्छामि, भंते! इति गुरोरामन्त्रणम्, हे भदन्त! भदन्तः सुखवान् कल्याणवांश्च भवति, 'भदुङ् सुखकल्याणयोः' [धा.पा. ७२२] अस्यौणादिकान्तप्रत्ययान्तस्य निपातने रूपम्, आमन्त्रणं च प्रत्यक्षस्य गुरोस्तदभावे परोक्षस्यापि बुद्ध्या प्रत्यक्षीकृतस्य भवति, गुरोश्चाभिमुखीकरणेन सर्वो धर्मः गुरुपादमूले तदभावे स्थापनासमक्षं कृतः फलवानिति दर्शितम् । यतः"नाणस्स होइ भागी, थिरयरओ दंसणे चरित्ते अ। धन्ना आवकहाए, गुरुकुलवासं न मुंचंति ।।१।।" [विशेषावश्यकभाष्ये ३४५९]
अथवा भवान्त भन्ते इत्यार्षत्वान्मध्यव्यञ्जनलोपे रूपम्, भन्ते इति अत 'एत्सौ पुंसि मागध्याम्' [श्रीसि० ८-४-२८७] इत्येकारः, अर्द्धमागधत्वादार्षस्य । 'सामायिकम्' उक्तनिर्वचनम्, आत्मानं समभावपरिणतं करोमीत्यर्थः । कथमित्याह-'सावा' अवद्यसहितं युज्यत इति योगो व्यापारस्तं 'प्रत्याख्यामि' प्रतीति प्रतिषेधे, आङाभिमुख्ये, ख्या प्रकथने [है. धा. पा. १०७१] ततश्च प्रतीपमभिमुखं ख्यापनं सावधयोगस्य करोमीत्यर्थः अथवा ‘पच्चक्खामि'त्ति प्रत्याचक्षे 'चक्षिा व्यक्तायां वाचि' [हैमधातुपाठे २/६४] इत्यस्य प्रत्यापूर्वस्य रूपम्, प्रतिषेधस्यादरेणाभिधानं करोमीत्यर्थः 'जाव साहू पज्जुवासामि' यावच्छब्दः परिमाणमर्यादाऽवधारणवचनः, तत्र परिमाणे यावत्साधुपर्युपासनं मम तावत् प्रत्याख्यामीति, मर्यादायां साधुपर्युपासनादर्वाक् अवधारणे यावत्साधुः तावदेव न तस्मात्परत इत्यर्थः ।
'दुविहं तिविहेणं' द्वे विधे यस्य स द्विविधः सावद्ययोगः स च प्रत्याख्येयत्वेन कर्म सम्पद्यते, अतस्तं द्विविधं योगं करणकारणलक्षणम्, अनुमतिप्रतिषेधस्य गृहस्थेन कर्तुमशक्यत्वात् पुत्रभृत्यादि