SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ धर्मसंग्रह भाग-3 | द्वितीय अधिकार | PRTs-32-33-3४ पर्पटिकादयो मरिचराजिकावधारादिमात्रसंस्कृतचिर्भटिकादीनि सचित्तान्तर्बीजानि सर्वपक्वफलानि च मिश्राणि, यद्दिने तिलकुट्टिः कृता तद्दिने मिश्रा, मध्येऽन्नरोटिकादिक्षेपे तु मुहूर्त्तादनु प्रासुका । दक्षिणमालवादौ प्रभूततरगुडक्षेपेण तद्दिनेऽपि तस्याः प्रासुकत्वव्यवहारः, वृक्षात्तत्कालगृहीतं गुन्दलाक्षाछल्ल्यादि तात्कालिको नालिकेरनिम्बूकनिम्बाऽऽप्रेक्ष्वादीनां रसः तात्कालिकं तिलादितैलं तत्कालभग्नं निर्बीजीकृतं नालिकेरशृङ्गाटपूगीफलादि निर्बीजीकृतानि पक्वफलानि गाढमर्दितं निष्कणं जीरकाऽजमकादि च मुहूर्तं यावन्मिश्राणि, मुहूर्त्तादूर्ध्वं तु प्रासुकानीति व्यवहृतिः । अन्यदपि प्रबलाग्नियोगं विना यत्प्रासुकीकृतं स्यात्तन्मुहूर्तावधि मिश्रं तदनु प्रासुकं व्यवह्रियते, यथा प्रासुकनीरादि, तथा कच्चफलानि कच्चधान्यानि गाढं मर्दितमपि लवणादि च प्रायोऽग्न्यादिप्रबलशस्त्रं विना न प्रासुकानि । योजनशतात्परत आगतानि हरीतकीखारिकीकिसिमिसिद्राक्षाखर्जूरमरिचपिप्पलीजातिफलबदामवायमअक्षोटकनमिजांपिस्तांचिणीकबाबास्फुटिकानुकारिसैन्धवादीनि सर्जिकाबिडलवणादिः कृत्रिमः क्षारः कुम्भकारादिपरिकर्मितमृदादिकम् एलालविङ्गजावित्रीशुष्कमुस्ताकोङ्कणादिपक्वकदलीफलान्युत्कालितशृङ्गाटकपूगादीनि च प्रासुकानीतिव्यवहारो दृश्यते, उक्तमपि श्रीकल्पे “जोयणसयं तु गतं (गन्ता), अणहारेणं तु भंडसंकंती । __ वायागणिधूमेण य, विद्धत्थं होइ लोणाइ ।।१।।" [बृहत्कल्पभाष्य ९७३/प्रवचनसारोद्धारे १००१, निशीथभाष्य ४८३३] लवणादिकं स्वस्थानात् गच्छत् प्रत्यहं बहुबहुतरादिक्रमेण विध्वस्यमानं योजनशतात्परतो गत्वा सर्वथैव विध्वस्तम् अचित्तं भवति । शस्त्राभावे योजनशतगमनमात्रेणैव कथमचित्तीभवतीत्याह-"अनाहारेण" यदुत्पत्तिदेशादिकं साधारणं तत्ततो व्यवस्थितं स्वोपष्टम्भकाहारविच्छेदाद्विध्वस्यते; तच्च लवणादिकं “भाण्डसंक्रान्त्या" पूर्वस्मात् पूर्वस्मात् भाजनादपरभाजनेषु यद्वा पूर्वस्या भाण्डशालाया अपरस्यां भाण्डशालायां संक्रम्यमाणं विध्वस्यते, तथा वातेन वाऽग्निना वा महानसादौ धूमेन वा लवणादिकं विध्वस्तं भवति । लोणाई इत्यत्रादिशब्दादमी द्रष्टव्याः । "हरियालमणोसिलपिप्पलीअखज्जूरमुद्दिआ अभया । आइन्नमणाइन्ना, तेविहु एमेव नायव्वा ।।२।।" [बृहत्कल्पभाष्य ९७४, निशीथभाष्य ४८३४, प्रवचनसारोद्धार १००२] हरितालं मनःशिला पिप्पली च खर्जूरः एते प्रसिद्धाः, मुद्रि(मृद्वी)का द्राक्षा, अभया हरीतकी, एतेऽप्येवमेव लवणवद्योजनशतगमनादिभिः कारणैरचित्तीभवन्तो ज्ञातव्याः, परमेकेऽत्राचीर्णाः, अपरेऽनाचीर्णाः । तत्र पिप्पलीहरीतकीप्रभृतय आचीर्णा इति गृह्यन्ते । खजूरमुद्रि(मृद्वी)कादयः पुनरनाचीर्णा इति न गृह्यन्ते । अथ सर्वेषां सामान्येन परिणमनकारणमाह -
SR No.022041
Book TitleDharm Sangraha Part 03
Original Sutra AuthorN/A
AuthorPravin K Mota
PublisherGitarth Ganga
Publication Year2012
Total Pages332
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy