________________
૪૨
धर्मसंग्रह भाग-3 / द्वितीय अधिकार | RAIS-32-33-३४ “आरुहणे ओरुहणे, निसिअणगोणाइणं च गाउम्हा ।
भूम्माहारोच्छेए, उवक्कमेणं च परिणामो ।।३।।" [बृहत्कल्पभाष्ये ९७५, निशीथभाष्ये ४८३५, प्रवचनसारोद्धारे १००३]
शकटादिषु लवणादीनां यद्भूयो भूय आरोहणमवरोहणं च, तथा यत्तस्मिन् शकटादौ लवणादिभारोपरि मनुष्या निषीदन्ति, तेषां गवादीनां च यः कोऽपि पिष्टा(पृष्ठा)दिगात्रोष्मा तेन वा परिणामो भवति । तथा यो यस्य भौमादिकः पृथिव्यादिक आहारस्तद्व्यवच्छेदे, तस्य परिणामः, उपक्रमः-शस्त्रम्, तच्च त्रिधा-स्वकायपरकाय-तदुभयरूपम् ।
तत्र स्वकायशस्त्रं यथा-लवणोदकं मधुरोदकस्य, कृष्णभूमं वा पाण्डुभूमस्य, परकायशस्त्रं यथा-अग्निरुदकस्य, उदकं चाग्नेरिति, तदुभयशस्त्रं यथा-उदकमृत्तिका शुद्धोदकस्येत्यादि, एवमादीनि सच्चित्तवस्तूनां परिणमनकारणानि मन्तव्यानि । “उप्पलपउमाई पुण, उण्हे दिण्णाइँ जाम न धरिति । मोग्गरगजूहिआओ, उण्हे छूढा चिरं हुंति ।।४।। मगदंतिअपुप्फाई, उदगच्छूढाइँ जाम न धरिंति । उप्पलपउमाइ पुणो, उदए छूढा चिरं हुँति ।।५।।" [बृहत्कल्पभाष्य ९७८-९]
उत्पलानि पद्मानि च उदकयोनिकत्वाद् उष्णे-आतपे दत्तानि “यामं” प्रहरमात्रं कालं “न ध्रियन्ते" नावतिष्ठन्ते, किन्तु प्रहरादर्वागेवाचित्तीभवन्ति । मुद्गरकाणि-मगदन्तिकापुष्पाणि यूथिकापुष्पाणि चोष्णयोनिकत्वादुष्णे क्षिप्तानि चिरमपि कालं भवन्ति, सचित्तान्येव तिष्ठन्तीभावः । मगदन्तिकापुष्पाणि उदके क्षिप्तानि याममपि न ध्रियन्ते, उत्पलपद्मानि पुनरुदके क्षिप्तानि चिरमपि भवन्ति ।
"पत्ताणं पुष्फाणं, सरडुफलाणं तहेव हरिआणं । बिंटमि मिलाणंमी, णायव्वं जीवविप्पजढं ।।६।।" [बृहत्कल्पभाष्य ९८०]
"पत्राणां पुष्पाणां सरडुफलानामबद्धास्थिकफलानां वास्तुलादीनां सामान्यतस्तरुणवनस्पतीनां वा वृन्ते मूलनाले म्लाने सति ज्ञातव्यं जीवविप्रयुक्तमेतत्पत्रादिकम्" [प. ३०८] इति श्रीकल्पवृत्तौ ।।
शाल्यादिधान्यानां तु श्रीपञ्चमागे षष्ठशतकसप्तमोद्देशके सचित्ताचित्तत्वविभाग एवमुक्तः ।
"अह णं भंते? सालीणं वीहीणं गोहूमाणं जवाणं जवजवाणं एएसि णं धण्णाणं कोट्ठाउत्ताणं पल्लाउत्ताणं मंचाउत्ताणं मालाउत्ताणं उल्लित्ताणं पिहिआणं मुद्दिआणं लंछिआणं केवइअं कालं जोणी संचिट्ठइ? गोअमा! जहण्णेणं अंतोमुहत्तं उक्कोसेणं तिण्णि संवच्छराई, तेण परं जोणी पमिलाइ पविद्धंसइ बीए अबीए भवइ । अह भंते? कलाय १ मसूर २ तिल ३ मुग्ग ४ मास ५ निप्फाव ६ कुलत्थ ७ अलिसंदग ८ सईण ९ पलिमंथग १० माईणं एएसि णं धण्णाणं? जहा सालीणं तहा एआणवि नवरं पञ्च संवच्छराई सेसं तं चेव । अह भंते ? अयसि