________________
૨૨
धर्भसंग्रह भाग-31द्वितीय मधिजार | Gोs-32-33-3४ पारलौकिकानेकदोषदुष्टत्वात् । यदभिहितम् - "मेहं पिवीलिआउ, हणंति वमणं च मच्छिआ कुणइ । जूआ जलोदरत्तं, कोलिअओ कोट्ठरोगं च ।।१।। वालो सरस्स भंगं, कंटो लग्गइ गलंमि दारुं च । तालुंमि विंधइ अली, वंजणमझंमि भुज्जंतो ।।२।।" [सम्बोधप्र. श्रा. ८०-१] व्यज्जनमिह वार्ताकशाकरूपमभिप्रेतं, तद्वन्तं च वृश्चिकाकारमेव स्यादिति वृश्चिकस्यासूक्ष्मस्यापि तन्मध्यपतितस्यालक्ष्यत्वाद् भोज्यता संभवतीतिविशेषः । निशीथचूर्णावपि - "गिहकोइलअवयवसम्मिस्सेण भुत्तेण पोट्टे किल गिहकोइला संमुच्छंति" । एवं सदिलालामलमूत्रादिपाताद्यपि । तथा - “मालिंति महिअलं जामिणिसु रयणीअरा य [स]मंतेणं । तेवि च्छलंति हु फुडं, रयणीए भुंजमाणं तु ।।१।।" [सम्बोधप्र. श्रा. ८२]
अपि च-निशाभोजने क्रियमाणे अवश्यं पाकः सम्भवी, तत्र षड्जीवनिकायवधोऽवश्यंभावी, भाजनथावनादौ च जलगतजन्तुनाशः, जलोज्झनेन भूमिगतकुन्थुपिपीलिकादिजन्तुघातश्च भवति तत्प्राणिरक्षणकाङ्क्षयापि निशाभोजनं न कर्त्तव्यम् । यदाहुः - "जीवाण कुंथुमाईण, घायणं भाणधोअणाईसुं । एमाइ रयणिभोयणदोसे को साहिलं तरइ? ।।१।।" [सम्बोधप्र. श्रा. ८३] यद्यपि च सिद्धमोदकादिखर्जूरद्राक्षादिभक्षणे नास्त्यन्नपाको, न च भाजनधावनादिसम्भवः, तथापि कुन्थुपनकादिघातसम्भवात्तस्यापि त्याग एव युक्तः । यदुक्तं निशीथभाष्ये -
"जइविहु फासुगदव्वं, कुंथूपणगादि तहावि दुप्पस्सा । पच्चक्खणाणिणोऽविहु, राईभत्तं परिहरति ।।१।। जइविहु पिवीलिगाई, दीसंति पईवमाईउज्जोए । तहवि खलु अणाइन्नं, मूलवयविराहणा जेणं ।।२।।" [गा. ३४११-२] एतत्फलं च"उलूककाकमार्जारगृध्रशम्बरशूकराः । अहिवृश्चिकगोधाश्च, जायन्ते रात्रिभोजनात् ।।१।।" परेऽपि पठन्ति