________________
२3
धर्मसंग्रह भाग-3 / द्वितीय मधिभार | Rels-32-33-3४ "मृते स्वजनमात्रेऽपि, सूतकं जायते किल । अस्तं गते दिवानाथे, भोजनं क्रियते कथम् ? ।।१।। रक्तीभवन्ति तोयानि, अन्नानि पिशितानि च । रात्रौ भोजनसक्तस्य, ग्रासे तन्मांसभक्षणम् ।।२।।" . स्कन्दपुराणे रुद्रप्रणीतकपालमोचनस्तोत्रे सूर्यस्तुतिरूपेऽपि"एकभक्ताशनानित्यमग्निहोत्रफलं लभेत् । अनस्तभोजनो नित्यं, तीर्थयात्राफलं भजेत् ।।१।।" तथा"नैवाहुतिर्न च स्नानं, न श्राद्धं देवतार्चनम् । दानं वा विहितं रात्रौ, भोजनं तु विशेषतः ।।२।।" [योगशास्त्रे ३/५६] आयुर्वेदेऽपि"हन्नाभिपद्मसङ्कोचश्चण्डरोचिरपायतः । अतो नक्तं न भोक्तव्यं, सूक्ष्मजीवादनादपि ।।३।।" [योगशास्त्रे ३/६०]
तस्माद्विवेकिना रात्रौ चतुर्विधोऽप्याहारः परिहार्यः, तदशक्तौ त्वशनं खादिमं च त्याज्यमेव, स्वादिमं पूगीफलाद्यपि दिवा सम्यक् शोधनादियतनयैव गृह्णात्यन्यथा त्रसहिंसादयोऽपि दोषाः मुख्यवृत्त्या च प्रातः सायं च रात्रिप्रत्यासन्नत्वाद् द्वे द्वे घटिके भोजनं त्यजेद्, यतो योगशास्त्रे
"अह्नो मुखेऽवसाने च, यो द्वे द्वे घटिके त्यजन् ।। निशाभोजनदोषज्ञोऽश्नात्यसौ पुण्यभाजनम् ।।१।।” [योगशास्त्रे ३/६३] .
अत एवागमे सर्वजघन्यं प्रत्याख्यानं मुहूर्त्तप्रमाणं नमस्कारसहितमुच्यते, जातु तत्तत्कार्यव्यग्रत्वादिना तथा न शक्नोति तदापि सूर्योदयास्तनिर्णयमपेक्षत एवाऽऽतपदर्शनादिना, अन्यथा रात्रिभोजनदोषः अन्धकारभवनेऽपि वीडया प्रदीपाकरणादिना त्रसादिहिंसानियमभङ्गमायामृषावादादयोऽधिकदोषा अपि । यतः - "न करेमित्ति भणित्ता, तं चेव निसेवए पुणो पावं । पच्चक्खमुसावाई, मायानियडीपसंगो अ ।।१।। पावं काऊण सयं, अप्पाणं सुद्धमेव वाहरइ। . दुगुणं करेइ पावं, बीअं बालस्स मंदत्तं ।।२।।" () १४ ।