________________
૨૮૯
धर्मसंग्रह भाग-3 / द्वितीय अधिकार | RATs-
ननु निरवद्यजिनधर्मसमाचरणचतुराणां जिनगृहबिम्बपूजादिकरणमनुचितम्, षट्जीवनिकायविराधनाहेतुत्वात्तस्य इति चेन्न,
"देहाइनिमित्तंपिहु, छक्कायवहमि जे पयद॒ति । जिणपूआकायवहमि तेसिमपवत्तणं मोहो ।।१।।" [पञ्चाशकप्र. ४/४५] इति वचनात्
य आरम्भपरिग्रहप्रसक्तस्तस्य कुटुम्बपरिपालनादिनिमित्तधनव्ययजनितपापविशुद्ध्यर्थं जिनभवनादौ धनव्ययस्य श्रेयस्करत्वात्, यस्तु निजकुटुम्बार्थमपि नारम्भं करोति प्रतिमाप्रतिपन्नादिः, तस्य मा भूज्जिनबिम्बादिविधापनमपि, अन्यत्रारम्भवत् एव धर्मार्थारम्भेऽप्यधिकृतत्वात्, न च धर्मार्थं प्रसह्य धनोपार्जनं युक्तम्, यतः
"धर्मार्थं यस्य वित्तेहा, तस्यानीहा गरीयसी । प्रक्षालनाद्धि पङ्कस्य, दूरादस्पर्शनं वरम् ।।१।।" [हारिभद्रीय अष्टक ४/६] इति ।
यस्तु देहाद्यर्थमारम्भकृदपि नह्येकं पापमाचरितमित्यन्यदप्याचरितव्यमिति मत्या जिनभवनकारणादौ धार्मिककृत्येऽप्यारम्भं न कुरुते, तस्य महान् दोष एव, तदुक्तं पञ्चाशके"अण्णत्यारंभवओ, धम्मेऽणारंभओ अणाभोगो । लोए पवयणखिसा, अबोहिबीअंति दोसा य ।।१।।" [४/१२]
नच वाप्यादिखननवदशुभोदकं जिनभवनादिकरणम्, अपि तु सङ्घसमागमधर्मदेशनाकरणव्रतप्रतिपत्त्यादिकरणेन शुभोदर्कमेव षट्जीवनिकायविराधना च यतनाकारिणामगारिणां कृपापारवश्येन सूक्ष्मानपि जन्तून् रक्षयतामविराधनैव, यदाहुः"जा जयमाणस्स भवे, विराहणा सुत्तविहिसमग्गस्स । सा होइ निज्जरफला, अज्झप्पविसोहिजुत्तस्स ।।१।। [पिण्डनिर्युक्तौ ६७१] परमरहस्समिसीणं, समत्तगणिपिडगझरिअसाराणं । परिणामिअं पमाणं, निच्छयमवलंबमाणाणं ।।२।।" [ओघनिर्युक्तौ ७६०-१] इत्यलं प्रसङ्गेन ३ । शार्थ :___ जिनभवनक्षेत्रे ..... प्रसङ्गेन ३ ।
बिना क्षेत्रमा स्वधनतुं न श्राप ४३ छे. हे प्रमाणे શલ્યાદિ રહિત ભૂમિમાં સ્વયંસિદ્ધ ઉપલ-કાષ્ઠાદિ દલવા ગ્રહણથી સૂત્રકારાદિ ભૂતકના અતિસંધાનથી મૃત્યોને અધિક મૂલ્યના વિતરણથી ષડજીવનિકાયની રક્ષાના યતનાપૂર્વક જિતભવનનું નિર્માણ કરે છે. વૈભવ હોતે છતે ભરતાદિની જેમ રત્નશિલાઓ વડે બદ્ધ સુવર્ણના ભૂતલવાળા, મણિમય સ્તંભ