SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ ૨૩૮ धर्मसंग्रह भाग-31द्वितीय मधिRI Cोs-५२-43 “विषाऽस्त्रहलयन्त्राऽयोहरितालादिवस्तुनः । विक्रयो जीवितघ्नस्य, विषवाणिज्यमुच्यते ।।१।।” [योगशास्त्रे-३/१०९] इति । ग्रन्थान्तरे तु यन्त्रपीडनकर्मण्येवेति १० । 'यन्त्रपीडनकर्म' शिलोदूखलमुशलघरट्टाऽरघट्टकङ्कतादिविक्रयस्तिलेखुसर्षपैरण्डफलातस्यादिपीडनदलतैलविधानं जलयन्त्रवाहनादि वा । यतः - "तिलेक्षुसर्षपैरण्डजलयन्त्रादिपीडनम् । दलतैलस्य च कृतिर्यन्त्रपीडा प्रकीर्तिता ।।१।।" [योगशास्त्रे-३/११०] अत्र यन्त्रशब्दः प्रत्येकं सम्बध्यते, तत्र तिलयन्त्रं तिलपीडनोपकरणम्, इक्षुयन्त्रं कोल्हुकादि, सर्षपैरण्डयन्त्रे तत्पीडनोपकरणे, जलयन्त्रमरघट्टादि, दलतिलं यत्र दलं तिलादि दीयते तैलं च प्रतिगृह्यते तद्दलतैलम्, तस्य कृतिविधानम्, अत्र दोषस्तु तिलादिक्षोदात्तद्गतत्रसजीववधाच्च । लौकिका अप्याहुः - “दशशूनासमं चक्रम्" [मनुस्मृति ४/८५] इति ११ ।। नितरां लाञ्छनम् अङ्गावयवच्छेदस्तेन कर्म=जीविका निर्लाञ्छनकर्म गवादिकर्णकम्बलशृङ्ग-, पृच्छच्छेदनासावेधाऽङ्कनषण्डनत्वग्दाहादिउष्ट्रपृष्ठगालनादि च, यतः"नासावेधोऽङ्कनं पुच्छ(मुष्क)च्छेदनं पृष्ठगालनम् । गोकर्णकम्बलच्छेदो, निर्लाञ्छनमुदीरितम् ।।१।।” [योगशास्त्रे-३/१११] तत्राङ्कनंगवाऽश्वादीनां चिह्नकरणम्, मुष्कः=अण्डस्तस्य छेदनं वर्द्धितकीकरणम्, अस्मिन् जीवबाधा व्यक्तैव १२ । दवस्य-दवाग्नेर्दानं वितरणं दवदानम्, गहनदाहे सति भिल्लादयः सुखेन चरन्ति, जीर्णतृणदाहे वा नवतृणाङ्कुरोझेदाद् गवादयश्चरन्ति, यद्वा दग्धे क्षेत्रे सस्यसम्पत्तिवृद्धिः स्यादित्यादिबुद्ध्या कौतुकाद्वा, यद्वा मम श्रेयोऽर्थं मरणकाले इयन्तो धर्मदीपोत्सवाः करणीया इति पुण्यबुद्ध्याऽरण्येऽग्निप्रज्वालनं, यतः"व्यसनात्पुण्यबुद्ध्या वा, दवदानं भवेत् द्विधा" [योगशास्त्रे-३/११३] इति । तत्र व्यसनात्-फलनिरपेक्षतात्पर्यात्, तथा च वनेचरा एवमेवाग्निं ज्वालयन्ति, पुण्यबुद्ध्या वा तच्चोक्तरीत्याऽवसेयम्, अत्र च दोषो जीवकोटीनां वधरूपः स्पष्ट एव १३ ।
SR No.022041
Book TitleDharm Sangraha Part 03
Original Sutra AuthorN/A
AuthorPravin K Mota
PublisherGitarth Ganga
Publication Year2012
Total Pages332
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy