________________
૨૩૭
धर्म लाग-3 | द्वितीय अधिार | Pals-५२-43
"दन्तकेशनखाऽस्थित्वग्रोम्णो ग्रहणमाकरे । त्रसाङ्गस्य वणिज्यार्थं, दन्तवाणिज्यमुच्यते ।।१।।” [योगशास्त्रे-३/१०६] ६ ।
लाक्षा जतुः, अत्रापि लाक्षाग्रहणमन्येषां सावद्यानां मनःशिलादीनामुपलक्षणम्, तदाश्रिता वणिज्या लाक्षावाणिज्यम्, लाक्षाधातकीनीलीमनःशिलावज्रलेपतुबरिकापट्टवासटंकणसाबूक्षारादि-विक्रयः । यतः
“लाक्षा-मनःशिला-नीली-धातकी-टङ्कणादिनः । विक्रयः पापसदनं, लाक्षावाणिज्यमुच्यते ।।१।।" [योगशास्त्रे-३/१०७]
अस्मिंश्च लाक्षाया बहुत्रसाकुलत्वात्तद्रसस्य च रुधिरभ्रमकारित्वात्, धातकीत्वक्पुष्पयोर्मद्याङ्गत्वात् तत्कल्कस्य च कृमिहेतुत्वात्, गुलिकाया अनेकजन्तुघाताविनाभावित्वात्, मनःशिलावज्रलेपयोः सम्पातिमबाह्यजन्तुघातकत्वात्, तुबरिकायाः पृथिवीत्वादिना पटवासस्य त्रसाकुलत्वात्, टङ्कणक्षारसाबूक्षारादेर्बाह्यजीवविनाशनिमित्तत्वाच्च महानेव दोषः ७ ।
रसवणिज्या-मधुमद्यमांसम्रक्षणवसामज्जादुग्धदधिघृततैलादिविक्रयः, दोषास्तु नवनीते जन्तुमूर्छनम्, वसाक्षौद्रयोर्जन्तुघातोद्भवत्वम्, मद्यस्योन्मादजननत्वम्, तद्गतकृमिविघातश्च, दुग्धादौ सम्पातिमजन्तुविराधना, दिनद्वयातीते दनि जन्तुसम्मुर्छनाऽपि ८ ।
केशशब्दः केशवदुपलक्षकः, ततो दासादिनृणां गवाश्वादितिरश्चां च केशवतां विक्रयः केशवणिज्या । यतः
"नवनीतवसाक्षौद्रमद्यप्रभृतिविक्रयः । द्विपाच्चतुष्पाद्विक्रयो वाणिज्यं रसकेशयोः ।।१।।" [योगशास्त्रे-३/१०८]
अजीवानां तु केशादिजीवाङ्गानां विक्रयो दन्तवाणिज्यमिति विवेकः द्विपाच्चतुष्पाद्विक्रये तु तेषां पारवश्यं वधबन्धादयः क्षुत्पिपासा पीडा चेति दोषाः ९ ।
विष-शृङ्गादि, तच्चोपलक्षणं जीवघातहेतूनामस्त्रादीनाम् ततो विषशस्त्रकुशीकुद्दालादिलोहहलादिविक्रयो विषवणिज्या अस्मिंश्च शृङ्गकवत्सनागादेर्हरितालसोमलक्षारादेश्च विषस्य, शस्त्रादीनां च जीवितघ्नत्वं प्रतीतमेव दृश्यन्ते च जलार्द्रहरितालेन सहसैव विपद्यमाना मक्षिकादयः, सोमलक्षारादिना तु भक्षितेन बालादयोऽपि, विषादिवाणिज्यं च परेऽपि निषेधयन्ति, यतः
"कन्याविक्रयिणश्चैव, रसविक्रयिणस्तथा । विषविक्रयिणश्चैव, नरा नरकगामिनः ।।१।।" इति । अरघट्टादियन्त्रविक्रयोऽपि योगशास्त्रे विषवाणिज्यतयोक्तो, यतः