________________
૨૩૯
धर्मसंग्रह भाग-3 / द्वितीय मधिार | Rोs-५२-५३ ___ सरसः शोषः सरःशोषः-धान्यादिवपनार्थं सारणीकर्षणम्, सरोग्रहणं जलाशयान्तराणामुपलक्षणम्, तेन सिन्धु-द्रह-तडागादिपरिग्रहः, यतः“सरःशोषः सरः-सिन्धु-हदादेरम्बुसम्प्लवः” [योगशास्त्रे-३/११३]
तत्रा-ऽखातं सरः, खातं तु तडागमित्यनयोर्भेदः, इह हि जलस्य तद्गतानां त्रसानां तत्प्लावितानां च षण्णां जीवनिकायानां वध इति दोषः १४ ।।
असत्योदुःशीलास्तासां पोषणम्, लिङ्गमतन्त्रम्, शुकादीनां पुंसामपि पोषणमसतीपोषः, शुकसारिकामयूरमार्जारमर्कटकुर्कुटकुर्कुरशूकरादितिरश्चां पोषणम्, तथा भाटीग्रहणार्थं दास्याः पोषः, गोल्लदेशे प्रसिद्धोऽयं व्यवहारः, एषां च दुःशीलानां पोषणं पापहेतुरेवेति दोषः १५ ।
इति पञ्चदशसङ्ख्यानि प्रस्तावात् कर्मादानानि अतिचाररूपत्वात् 'त्यजेत्' जह्यात्, श्रावक इति शेषः, इत्युक्तानि पञ्चदश कर्मादानानि, दिग्मानं चेदमेवंजातीयानां बहूनां सावद्यकर्मणाम, न पुनः परिगणनमिति, इह चैवं विंशतिसङ्ख्यातिचाराभिधानमन्यत्रापि पञ्चातिचारसङ्ख्यया तज्जातीयानां व्रतपरिणामकालुष्यनिबन्धनविधीनां संग्रह इति ज्ञापनार्थम्, तेन स्मृत्यन्त नादयो यथासम्भवं सर्वव्रतेष्वतिचारा द्रष्टव्याः, अत एव चात्र व्रते रात्रिभोजनमद्यादिनिवृत्तिष्वप्यतिचाराः पूर्वं भाविताः तथा चोक्तमुपासकदशाङ्गवृत्तौ “य एते प्रतिव्रतं पञ्च पञ्चातिचारास्ते उपलक्षणमतिचारान्तराणामवसेयम्, नत्ववधारणम्, यदाहुः पूज्या:“पञ्चपञ्चातिचारा उ, सुत्तमि जे पदंसिआ । ते नावहारणट्ठाए, किन्तु ते उवलक्खणं ।।१।।" [उपासकदशाङ्गे अ. १/सू. ७ प. ६-ए] ति ।
इदं चेह तत्त्वम् – यत्र व्रतविषयेऽनाभोगादिनाऽतिक्रमादिपदत्रयेण वा स्वबुद्धिकल्पनया वा व्रतसापेक्षतया व्रतविषयं परिहरतः[या]प्रवृत्तिः साऽतिचारः, विपरीततायां तु भङ्गः, इत्येवं सङ्कीर्णातिचारपदगमनिका कार्येति ।
"नन्वङ्गारकर्मादयः कथं खरकर्मण्यतिचाराः? खरकर्मरूपा ह्येते सत्यम्, खरकर्मरूपा एवैते, किन्त्वनाभोगादिना क्रियमाणाः खरकर्मवर्जनव्रतवतामतिचाराः स्युः, उपेत्य क्रियमाणास्तु भङ्गा एवेति ।" [तुला-पञ्चाशकटीका १/२२, प. २१-ए । योगशास्त्रटीका ३/११३ प. ५५३] पञ्चाशकयोगशास्त्रवृत्त्योः ।।५२-५३।। टोडार्थ :___ अथोत्तरार्द्धन ..... पञ्चाशकयोगशास्त्रवृत्त्योः ।। वे उत्तराधथी=RANSL Gत्तरार्धथी, पाय व न्य ने
छ - in allinय महान ४ छ. 'वणिज्याका इत्यादि' प्रती छ. .