________________
૧૭૭
धर्मसंग्रह भाग-3 / द्वितीय अधिदार / PRTs-४३
अतिशयितो भारोऽतिभारो वोढुमशक्य इतियावत्, तस्यारोपणंगोकरभरासभमनुष्यादेः स्कन्धे पृष्ठे शिरसि वा स्थापनम्, इहापि क्रोधात्तदुपलक्षितलोभावतियोज्यमिति चतुर्थोऽतिचारः ४ । ___ भक्तम् अशनमोदनादि, पानं पेयं जलादि, तयोर्व्यवच्छेदो-निषेधः, क्रुध एवेति पञ्चमोऽतिचारः
___ अत्र चायमावश्यकचूाद्युक्तो विधिः-वधो द्विपदानां चतुष्पदानां वा स्यात्, सोऽपि सार्थकोऽनर्थको वा तत्रानर्थकस्तावद्विधातुं न युज्यते, सार्थकः पुनरसौ द्विविधः-सापेक्षो निरपेक्षश्च, तत्र निरपेक्षो निर्दयताडनम्, स न कर्त्तव्यः, सापेक्षः पुनः श्रावकेणादित एव भीतपर्षदा भवितव्यम्, यदि पुनः कोऽपि न करोति विनयम्, तदा तं मर्माणि मुक्त्वा लतया दवरकेण वा सकृद्विर्वा ताडयेत् १ ।
बन्धोऽपि तथैव, नवरं निरपेक्षो निश्चलमत्यर्थं च बन्धनम्, सापेक्षो यो दामग्रन्थिना शिथिलेन, यश्च प्रदीपनादिषु मोचयितुं छेत्तुं वा शक्यते, एवं चतुष्पदानां बन्धः, द्विपदानामपि दासदासीचौरपारदारिकप्रमत्तपुत्रादीनां यदि बन्धः तदा सविक्रमणा एव बन्धनीयाः, रक्षणीयाश्च, यथाऽग्निभयादिषु न विनश्यन्ति, तथा द्विपदचतुष्पदाः श्रावकेण त एव संग्रहीतव्या ये अबद्धा एवासते २ ।
छविश्छेदोऽपि तथैव, नवरं निरपेक्षो हस्तपादकर्णनासिकादि यत्रिर्दयं छिनत्ति,सापेक्षः पुनर्गडं वा अरुर्वा छिन्द्याद्वा दहेद्वेति ३ ।
तथाऽतिभारोऽपि नारोपयितव्यः, पूर्वमेव हि द्विपदादिवाहनेन याऽऽजीविका सा श्रावकेण मोक्तव्या, अथान्या सा न भवेत, तदा द्विपदो यं भारं स्वयमुत्क्षिपति अवतारयति च तं वाह्यते, चतुष्पदस्य तु यथोचितभारः किञ्चिदूनः क्रियते हलशकटादिषु, पुनरुचितवेलायामसौ मुच्यते ४ ।
तथा भक्तपानव्यवच्छेदो न कस्यापि कर्त्तव्यः, तीक्ष्णबुभुक्षो ह्येवं सति म्रियते, स्वभोजनवेलायां तु ज्वरितादीन् विना नियमत एवान्यान् विधृतान् भोजयित्वा स्वयं भुञ्जीत, भक्तपाननिषेधोऽपि सार्थकाऽनर्थकभेदभित्रो बन्धवद्रष्टव्यः, नवरं सापेक्षो रोगचिकित्सार्थं स्यात्, अपराधकारिणि च वाचैव वदेद्-अद्य ते भोजनादि न दास्यते, शान्तिनिमित्तं चोपवासादि कारयेत्, किं बहुना? मूलगुणस्याहिंसालक्षणस्यातिचारो यथा न भवति तथा यतनीयम्, अतः पड्डकछागोत्पत्त्यादिकबहुदोषहेतुं महिष्यजादिसङ्ग्रहं च वर्जयेदिति । ननु हिंसैव श्रावकेण प्रत्याख्याता, ततो बन्धादिकरणेऽपि न दोषः हिंसाविरतेरखण्डितत्वात्, अथ बन्धादयोऽपि प्रत्याख्यातास्तदा तत्करणे व्रतभङ्ग एव, विरतिखण्डनात्, किञ्च-बन्धादीनां प्रत्याख्येयत्वे व्रतेयत्ता विशीर्येत, प्रतिव्रतमतिचाराणामाधिक्यादिति, एवं च न बन्धादीनामतिचारतेति ।