SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ ૧૩૬ धर्भसंग्रह भाग-3/द्वितीय मधिर/-४० "किञ्चित् शुद्धं कल्प्यमकल्प्यं स्यात् स्यादकल्प्यमपि कल्प्यम् । पिण्डः शय्या वस्त्रं, पात्रं वा भेषजाद्यं वा ।।१।। देशं कालं पुरुषमवस्थामुपयोगशुद्धिपरिणामान् । प्रसमीक्ष्य भवति कल्प्यं, नैकान्तात्कल्पते कल्प्यम् ।।२।।" [प्रशमरतिप्र. १४६-७] । ननु यथा शास्त्रे आहारदातारः श्रूयन्ते, न तथा वस्त्रादिदातारः, न च वस्त्रादिदानस्य फलं श्रूयते, तन्न वस्त्रादिदानं युक्तम्, नैवम्, भगवत्यादौ वस्त्रादिदानस्य साक्षादुक्तत्वात्, यथा - “समणे निग्गंथे फासुयएसणिज्जेणं असणपाणखाइमसाइमेणं वत्थपडिग्गहकंबलपायपुंछणेणं पीढफलगसिज्जासंथारएणं पडिलाभेमाणे विहरति ।" इत्याहारवत्संयमाधारशरीरोपकारकत्वाद्वस्त्रादयोऽपि साधुभ्यो देयाः । [योगशास्त्र वृत्तिः ३/८७ प. ४९६-८] संयमोपकारित्वं च वस्त्रादीनां यथोपपद्यते तथा यतिधर्माधिकारे वक्ष्यते । इह वृद्धोक्ता सामाचारी - श्रावकेण पोषधं पारयता नियमात्साधुभ्यो दत्वा भोक्तव्यम्, कथम्? यदा भोजनकालो भवति, तदाऽऽत्मनो विभूषां कृत्वा प्रतिश्रयं च गत्वा साधूनिमन्त्रयते, 'भिक्षा गृह्णीतेति' साधूनां च तं प्रति का प्रतिपत्तिः? उच्यते, तदैकः पटलमन्यो मुखानन्तकमपरो भाजनं प्रत्युपेक्षते, माऽन्तरायदोषाः स्थापनादोषा वाभूवन्निति । स च यदि प्रथमायां पौरुष्यां निमन्त्र्यते, अस्ति च नमस्कारसहितप्रत्याख्यानी ततस्तद्गृह्यते, अथ नास्त्यसौ तदा न गृह्यते, यतस्तद्वोढव्यं भवति, यदि पुनर्घनं लगेत् तदा गृह्यते संस्थाप्यते च यो वा उद्घाटपौरुष्यां पारयति पारणकवानन्यो वा, तस्मै तद्दीयते पश्चात्तेन श्रावकेण ससंघाटको व्रजति, एको न वर्त्तते प्रेषयितुम्, साधू पुरतः श्रावकस्तु मार्गे(मार्गतो) गच्छति, ततोऽसौ गृहं नीत्वा तावासनेनोपनिमन्त्रयते यदि निविशेते तदा भव्यम्, अथ न निविशेते तथापि विनयः प्रयुक्तो भवति, ततोऽसौ भक्तं पानं च स्वयमेव ददाति, भाजनं वा धारयति, स्थित एव वाऽऽस्ते यावद्दीयते, साधू अपि पश्चात्कर्मपरिहारार्थं सावशेषं गृह्णीतः ततो वन्दित्वा विसर्जयति, अनुगच्छति च कतिचित्पदानि, ततः स्वयं भुङ्क्ते । यदि पुनस्तत्र ग्रामादौ साधवो न भवन्ति तदा भोजनवेलायां द्वारावलोकनं करोति, विशुद्धभावेन च चिन्तयति-यदि साधवोऽभविष्यन् तदा निस्तारितोऽभविष्यमिति, एष पोषधपारणके विधिः अन्यदा तु दत्वा भुङ्क्ते भुक्त्वा वा ददातीति ।
SR No.022041
Book TitleDharm Sangraha Part 03
Original Sutra AuthorN/A
AuthorPravin K Mota
PublisherGitarth Ganga
Publication Year2012
Total Pages332
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy