________________
धर्मसंग्रह भाग-3 / द्वितीय अधिकार | दोs-४०
૧૩૫ श्रावकस्य साधुरेवेति, तस्यातिथेः साधोः 'मुदा' हर्षेण गुरुत्वभक्त्यतिशयेन नत्वनुकम्पादिनेत्यर्थः 'प्रदानं' प्रकर्षेण मनोवाक्कायशुद्ध्या दानं विश्राणनं, कस्य ? 'आहारवस्त्रपात्रादेः' तत्राहारोऽशनादिः चतुर्विधः, वस्त्रं प्रतीतम्, कम्बलो वा, पात्रं पतद्ग्रहादि, आदिशब्दात् वसतिपीठफलकशय्यासंस्तारकादिग्रहणम, अनेन हिरण्यादिदाननिषेधः, तेषां यतेरनधिकारित्वात् 'तदतिथिसंविभागवतं' 'जिनैः' अर्हद्भिः 'उदीरितं' प्रतिपादितम् ।
तत्र अतिथेः-उक्तलक्षणस्य सङ्गतः-आधाकर्मादिद्विचत्वारिंशद्दोषरहितो विशिष्टो भागो विभागः पश्चात्कर्मादिदोषपरिहारायांशदानरूपोऽतिथिसंविभागस्तद्रूपं व्रतम्-अतिथिसंविभागवतम्, आहारादीनां च न्यायार्जितानां प्रासुकैषणीयानां कल्पनीयानां च देशकालश्रद्धासत्कारक्रमपूर्वकमात्मानुग्रहबुद्ध्या यतिभ्यो दानमित्यर्थः ।
तत्र शाल्यादिनिष्पत्तिभागो देशः १, सुभिक्षदुर्भिक्षादिः कालः २, विशुद्धश्चित्तपरिणामः श्रद्धा ३, अभ्युत्थानासनदानवन्दनानुव्रजनादिः सत्कारः ४, यथासम्भवं पाकस्य देयादिपरिपाट्या प्रदानं क्रमः ५, तत्पूर्वकं देशकालाद्यौचित्येनेत्यर्थः । यदूचुः__ "नायागयाणं कप्पणिज्जाणं अन्नपाणाईणं दव्वाणं देसकालसद्धासक्कारकमजुअं पराए भत्तीए आयाणुग्गहबुद्धीए संजयाणं दाणं अतिहिसंविभागो" ।
अनूदितं चैतत् श्रीहेमसूरिभिः - "प्रायः शुद्धैस्त्रिविधविधिना प्रासुकैरेषणीयैः, कल्पप्रायैः स्वयमुपहितैर्वस्तुभिः पानकाद्यैः । काले प्राप्तान् सदनमसमश्रद्धया साधुवर्गान्, धन्याः केचित्परमवहिता हन्त सन्मानयन्ति ।।१।। अशनमखिलं खाद्यं स्वाद्यं भवेदथ पानकं, यतिजनहितं वस्त्रं पात्रं सकम्बलप्रोञ्छनम् । वसतिफलकप्रख्यं मुख्यं चरित्रविवर्द्धनं, निजकमनसः प्रीत्याधायि प्रदेयमुपासकैः ।।२।।" तथा - "साहूण कप्पणिज्जं, जं नवि दिन्नं कहिंचि किंचि तहिं । धीरा जहुत्तकारी, सुसावगा तं न भुंजन्ति ।।३।। वसहीसयणाऽऽसणभत्तपाणभेसज्जवत्थपायाई ।
जइवि न पज्जत्तधणो, थोवाविहु थोवयं दिज्जा ।।४।।" [उपदेशमाला २३९-२४०, सम्बोधप्र. श्रावक. १३९-१४०]
वाचकमुख्यस्त्वाह -