________________
४८
धर्मसंग्रह भाग-२ | द्वितीय अधिकार | -२२ तस्याङ्गारमईकादेर्द्रष्टव्यम् ३ । चतुर्विधं क्षायिकादित्रयेऽधिकस्य सासादनस्य परिगणनात् वेदकस्य च परित्यागात् ४ । वेदकयुतं तदेव पञ्चविधम् ५ ।
दशविधं चोत्तराध्ययनानुसारेणोपदय॑ते-निसर्गरुचिः १, उपदेशरुचिः २, आज्ञारुचिः ३, सूत्ररुचिः ४, बीजरुचिः ५, अभिगमरुचिः ६, विस्ताररुचिः ७, क्रियारुचिः ८,संक्षेपरुचिः ९, धर्मरुचिः १० इति । तत्रभूतार्थेन सहसंमत्या जीवा-ऽजीवादिनवपदार्थविषयिणी रुचिनिसर्गरुचिः, भूतार्थेनेत्यस्य भूतार्थत्वेनेत्यर्थो, भावप्रधाननिर्देशात्, सद्भूतार्था अमी इत्येवंरूपेणेतियावत्, वस्तुतो भूतार्थेनेत्यस्य शुद्धनयेनेत्यर्थः [उत्तराध्ययन-२८, शांत्याचार्य-टीका] “ववहारोऽभूअत्थो, भूअत्यो देसिओ अ सुद्धाणउ" [] तिवचनात्, तेन व्यवहारमात्ररुचेविच्छेदः, सहसंमत्येत्यस्य सहात्मना संगता मतिः [सहसंमतिस्तयोपदेशनिरपेक्षक्षयोपशमेणेत्यर्थः १ ।
परोपदेशप्रयुक्तं जीवा-ऽजीवादिपदार्थविषयिश्रद्धानम् उपदेशरुचिः । परस्तीर्थकरस्तद्वचनानुसारी छद्मस्थो वा, केवलज्ञानमूलकत्वप्रयुक्तोपदेशरुचिस्तज्जन्यबोधरुचिर्वेति निष्कर्षः । तदुक्तं सूत्रकृते"लोगं अयाणित्तिह केवलेणं, कहंति जे धम्ममयाणमाणा । णासंति अप्पाण परं च णट्ठा, संसारघोरंमि अणोरपारे ।।१।। लोगं वियाणंतिह केवलेणं, पुन्नेण नाणेण समाहिजुत्ता । धम्मं समत्तं च कहंति जे उ, तारंति अप्पाण परं च तिण्ण त्ति ।।२।।" [श्रुत. २ अ. ६/७८६-७] उपदेशे तज्जन्यबोधे च रुचिरिह संशयव्यावर्त्तकतावच्छेदको धर्मविशेषः २ ।।
रागद्वेषरहितस्य पुंस आज्ञयैव धर्मानुष्ठानगता रुचिराज्ञारुचिः, राहित्यं च देशतः सर्वतश्च, तत्र देशतो दोषरहितानामाचार्यादीनामाज्ञया धर्मानुष्ठाने रुचिर्माषतुषादीनां सम्यक्त्वसंपादिका तत्तदनुष्ठाने तदुक्तं पञ्चाशके"गुरुपारतंतनाणं, सद्दहणं एयसंगयं चेव । एत्तो उ चरित्तीणं, मासतुसाईण णिद्दिष्टुं ।।१।।" [११/७] ति । सर्वदोषरहिताज्ञामूलत्वं च तत्राप्यप्रामाण्यशङ्कानिवर्तकत्वेन सर्वत्र रुचिप्रयोजकमितिशेषः ३ ।
सूत्राध्ययनाभ्यासजनितविशिष्टज्ञानेन जीवाजीवादिपदार्थविषयिणी रुचिः सूत्ररुचिर्गोविन्दाचार्यस्येव, जायते च पुनः पुनः स्मरणाद् दृढतरः संस्कार इव पुनः पुनरध्ययनाद् दृढतरं ज्ञानं निःसंशयमिति न किमप्यनुपपत्रम् ४ ।
एकेन पदेनानेकपदतदर्थप्रतिसंधानद्वारा उदके तैलबिन्दुवत् प्रसरणशीला रुचिर्बीजरुचिः, प्रसार उत्तरोत्तरोत्पत्तिः ५ ।