________________
ધર્મસંગ્રહ ભાગ-૨ | દ્વિતીય અધિકાર | શ્લોક-૨૨
रूपत्वात्, मिथ्याऽचारनिवृत्तिरूपकार्यस्य तत एव भावात्, कार्यानुपहितस्य कारणस्य निश्चयनयेनानभ्युपगमात् । नन्वेवं तुर्यगुणस्थानादिवर्त्तिनां श्रेणिकादीनामपि तत्र स्यादितिचेत्, न स्यादेव, कः किमाह-अप्रमत्तसंयतानामेव तद्व्यवस्थितेस्तदुक्तमाचाराङ्गे
"जं सम्मति पासह, तं मोणं ति पासह, जं मोणं ति पासह, तं सम्मं ति पासह १ ।
इमं सक्कं सिढिलेहिं अद्दिज्जमाणेहिं गुणासाएहिं वंकसमायारेहिं पमत्तेहिं गारमावसंतेहिं । मोणं समादाय धुणे कम्मसरीरगं ।
पंतलूहं च सेवंति, वीरा सम्मत्तदंसिणो १ ।। (२ / ५ / ३. सू. १२५ ) त्ति ।
४७
नन्वेवमपि कारकनिश्चयसम्यक्त्वयोर्भेदो न स्यात्, क्रियोपहितस्यैव कारकत्वात्, क्रियायाश्च चारित्ररूपत्वात्, ज्ञानादिमयपरिणामस्यापि तथात्वादिति चेन्न, उपधेयसङ्करेऽप्युपाध्योरसाङ्कर्येणादोषात् कारके क्रियोपहितत्वमुपाधिनैश्चयिके च ज्ञानादिमयत्वमिति । एवंविधं नैश्चयिकसम्यक्त्वमधिकृत्यैव प्रशमादीनां लक्षणत्वं सिद्धान्तोक्तं संगच्छते, अन्यथा श्रेणिककृष्णादीनामपि तदसंभवेन लक्षणव्याघातसंभवात् । तदुक्तं विंशिकायां श्रीहरिभद्राचार्यैः
“णिच्छयसम्मत्तं वाऽहिकिच्च सुत्तभणिअनिउणरूवं तु ।
एवंविहो णिओगो, होइ इमो हंत वण्णुत्ति ।। १ ।। " [सद्धर्मविंशिका - ६, गा. १७]
अत्र वाकारो विषयविशेषापेक्षया प्रकारान्तरोपदर्शनार्थः । अथवा ज्ञानादिमय इत्यस्यायमर्थःज्ञाननये ज्ञानस्य दशाविशेष एव सम्यक्त्वम्, क्रियानये च चारित्ररूपम्, दर्शननये तु स्वतन्त्रं व्यवस्थितमेव इति । शुद्धात्मपरिणामग्राहिनिश्चयनये तु
" आत्मैव दर्शन - ज्ञान - चारित्राण्यथवा यतेः ।
यत्तदात्मक एवैष, शरीरमधितिष्ठति ।।१।। " [४/१]
इति योगशास्त्रवचनादात्मैव निरुपाधिशुद्धस्वरूपप्रकाशात् ज्ञानरूपः, तथा श्रद्धानाद्दर्शनरूपः, स्वभावाचरणाच्चारित्ररूप इति शुद्धात्मबोधाचरणतृप्तिरेव निश्चयसम्यक्त्वमित्यलं प्रपञ्चेन ।
त्रिविधं यथा - क्षायिकम्, क्षायोपशमिकम्, औपशमिकं चेति, वेदकस्य क्षायोपशमिकेऽन्तर्भावात्, सासादनस्याविवक्षितत्वात् अर्थस्तु प्रागुक्तः । अथवा कारकं रोचकं दीपकं चेति, तत्र कारकं सूत्राज्ञाशुद्धा क्रियैव तस्या एव परगतसम्यक्त्वोत्पादकत्वेन सम्यक्त्वरूपत्वात्, तदवच्छिन्नं वा सम्यक्त्वं कारकसम्यक्त्वम्, एतच्च विशुद्धचारित्राणामेव १ । रोचयति सम्यगनुष्ठानप्रवृत्तिम् न तु कारयतीति रोचकम्, अविरतसम्यग्दृशां कृष्णश्रेणिकादीनाम् २ । दीपकं व्यञ्जकमित्यनर्थान्तरम्, एतच्च यः स्वयं मिथ्यादृष्टिरपि परेभ्यो जीवा - ऽजीवादिपदार्थान् यथावस्थितान् व्यनक्ति,