________________
४७
ધર્મસંગ્રહ ભાગ-૨ / દ્વિતીય અધિકાર / બ્લોક-૨૨
“जिणवयणमेव तत्तं, इत्थ रुई होई दव्वसम्मत्तं । जहभावणाणसद्धापरिसुद्धं भावसंमत्तं ।।१।।" [गा. १०६३] ति ।
पञ्चवस्तुके प्रति(त्य)पादि तस्याप्ययमेवार्थः, जिनवचनमेव तत्त्वं नान्यदिति सामान्यरुचेर्द्रव्यसम्यक्त्वरूपताया नयनिक्षेपप्रमाणपरिष्कृतविस्ताररुचेश्च भावसम्यक्त्वरूपतायास्तत्र परिस्फुटत्वात् । तत्र द्रव्यशब्दार्थः कारणता, भावशब्दार्थश्च कार्यापत्तिरिति भावनीयम् । येषां त्वेकान्तेन सामान्यरुचिरोघतोऽप्यनेकान्तास्पर्शश्च, तेषां द्रव्यसम्यक्त्वमित्यत्र द्रव्यपदार्थोऽप्राधान्यमेव । जैनमपि समयमवलम्ब्यैकान्ते प्रविशतां मिथ्यात्वस्यावर्जनीयत्वात् । तदाहुः श्रीसिद्धसेनदिवाकरपादाः
"नियमेण सद्दहणो छक्काए भावओ न सद्दहइ । हंदी अपज्जवेसु वि सद्दहणा होइ अविभत्ता ।।१।।" [संमतितर्कप्र. का. ३/२८] त्ति । . गोंध:
* संभातित ग्रंथम था मा प्रभाएो छ: यस्य त्वनेकान्ततत्त्वे भगवत्प्ररूपिते सम्यगपरिच्छिद्यमानेऽपि भगवत्प्ररूपितत्वेन तत्र रुचिर्विपरीताभिनिवेशश्च न भवति गीतार्थप्रज्ञापनीयत्वादिगुणयोगात्, तस्यानाभोगगुरुपारतन्त्र्याभ्यामन्यथा सम्भावनेऽपि अन्तस्तत्त्वस्य शुद्धत्वाद् द्रव्यसम्यक्त्वमविरुद्धम्, तथा च भाद्रबाहवं वच उत्तराध्ययननिर्युक्तौ“सम्मद्दिट्ठी जीवो, उवइटें पवयणं तु सद्दहइ । सद्दहइ असब्भावं, अणभोगा गुरुनिओगा व ।।१।।" [गा. १६३] त्ति । नन्वत्रद्रव्यभावयोरेकतरस्यानिर्धारणाद् द्रव्यमेवेति कुतः? सामान्यवचनस्य विशेषपरतायां प्रमाणस्य मृग्यत्वादिति चेत्, सत्यम्, विस्ताररुचेर्भावसम्यक्त्वस्याधिकृत(त्व)स्यैव तद्र्व्यतायाम् प्रमाणत्वात् द्रव्यभावयोरन्योन्यानुविद्धत्वनये तु तत्र कथञ्चिद् भावत्वमप्युच्यमानं न विरोधायेत्युक्तमन्यत्र, एवं द्रव्यभावाभ्यां द्वैविध्यं नयविशेषेण विचित्रं भावनीयम् । अथवा निश्चयव्यवहाराभ्यां द्विविधम्, तल्लक्षणमिदम्"निच्छयओ सम्मत्तं, नाणाइमयप्पसुद्धपरिणामो । इअरं पुण तुह समए, भणिअं सम्मत्तहेऊहिं ।।१।।" [सम्यक्त्वस्तव प्र० गा. ११] ति ।
ज्ञानादिमयशुभपरिणामो निश्चयसम्यक्त्वम्, ज्ञानश्रद्धानचरणैः सप्तषष्टिभेदशीलनं च व्यवहारसम्यक्त्वमित्येतदर्थः । ननु ज्ञानादिमय इत्यस्य ज्ञानदर्शनचारित्रसंलुलित इत्यर्थः, तथा चैतद् भावचारित्रमेव प्राप्तम्, कथं नैश्चयिकं सम्यक्त्वमिति? चेत्, सत्यम्, भावचारित्रस्यैव निश्चयसम्यक्त्व