________________
ધર્મસંગ્રહ ભાગ-૨ / દ્વિતીય અધિકાર | શ્લોક-૨૨
अर्थतः सकलसूत्रविषयिणी रुचिरभिगमरुचिराह च“सो होइ अभिगमरुई, सुअनाणं जस्स अत्थओ दिटुं । इक्कारस अंगाई, पइन्नगं दिट्ठिवाओ अ ।।१।।" [प्रवचनसारोद्धारे गा. ९५६] त्ति । प्रकीर्णकमिति जातावेकवचनम्, ततः प्रकीर्णकानि उत्तराध्ययनादीनीत्यर्थः, दृष्टिवादश्चेति चकारादुपाङ्गादिपरिग्रहः । नन्वेवमियं सूत्ररुचेर्न भिद्येत, नचेयमर्थावच्छिन्नसूत्रविषया, सा च केवलं सूत्रविषयेत्येवं भेदः, केवलसूत्रस्य मूकत्वात्, तद्विषयरुचेरप्रमाणत्वात्, आह च-"मूअगं केवलं सुत्तं” [उपदेशपदे गा. ८५६] त्ति, न केवलं केवलसूत्ररुचेरप्रमाणत्वम्, किंत्वज्ञानानुबन्धित्वमपि । तदुक्तमुपदेशमालायाम्“अपरिच्छिअसुअणिहसस्स केवलमभिन्नसुत्तचारिस्स । सव्वुज्जमेण वि कयं, अन्नाणतवे बहुं पडइ ।।१।।" [गा. ४१५] त्ति ।
अभिन्नति अविवृतम्, इतिचेत्, सत्यम्, सूत्ररुचावर्थस्यार्थरुचौ च सूत्रस्य प्रवेशेऽपि सूत्रार्थाध्ययनजनितज्ञानविशेषकृतरुचिभेदाभेदः, अत एव सूत्राध्ययनादर्थाध्ययनेऽधिको यत्न उपदिष्ट उपदेशपदे । तथाहि
"सुत्ता अत्थे जत्तो, अहिगयरो णवरि होइ कायव्वो । इत्तो उभयविसुद्धित्ति, मूअगं केवलं सुत्तं ।।१।।" [उपदेशपदे गा. ८५६] ति ।
अथवा सूत्रनिर्युक्त्यादिग्रन्थविषयरुचिभेदाभेदः, अत एवाज्ञारुचिः सूत्ररुचेभिन्ना नियुक्त्यादिविषयत्वेन स्थानाङ्गवृत्तौ प्रतिपादितेति ६ ।
सर्वप्रमाणसर्वनयजन्यसर्वद्रव्यसर्वभावविषयिणी रुचिर्विस्ताररुचिः ७ । दर्शनज्ञानचारित्रतपोविनयाद्यनुष्ठानविषयिणी रुचिः क्रियारुचिः । न चाज्ञारुचिरपि धर्मानुष्ठानविषया इयमपि तथेति कोऽनयोर्भेदः? इति शङ्कनीयम्, सा ह्याज्ञास्मरणनियता, इयं त्वसङ्गेत्येवं भेदाद्, अत एव सर्वसात्म्येन परिणतचारित्रक्रियाश्चारित्रकाया महर्षयो भणिता, 'इत्तो उ चरित्तकाओ' [ ]त्ति वचनेन हरिभद्राचार्यः ८ ।
अनभिगृहीतकुदृष्टेः प्रवचनाविशारदस्य निर्वाणपदमात्रविषयिणी रुचिः संक्षेपरुचिर्यथोपशमादिपदत्रयविषयिणी चिलातिपुत्रस्य, न च विशेष्यभागरहितं विशेषणद्वयमात्रमेतल्लक्षणं युक्तम्, मूर्छादिदशासाधारण्यात् ९ ।
धर्मपदमात्रश्रवणजनितप्रीतिसहिता धर्मपदवाच्यविषयिणी रुचिर्द्धर्मरुचिः । आह च