________________
धर्मसंग्रह भाग-२ | दितीय मधिकार | RI5-२२
अवाप्तसम्यक्त्वश्च तत्परित्यागे कार्मग्रन्थिकमतेनोत्कृष्टस्थितीः कर्मप्रकृतीर्बध्नाति, सैद्धान्तिकाभिप्रायतस्तु भिन्नग्रन्थेरुत्कृष्टः स्थितिबन्ध एव न स्यात् १ ॥
तथा क्षयो मिथ्यात्वमोहनीयस्यानन्तानुबन्धिनां निर्मूलनाशः प्रयोजनमस्य क्षायिकं यतः"खीणे दंसणमोहे, विविहंमि वि भवनिआणभूअंमि । निप्पच्चवायमउलं, सम्मत्तं खाइअं होइ ।।१।।" [धर्मसंग्रहण्यां गा. ८०१] त्ति । तच्च साद्यनन्तम् २ ।
तथा उदितानां मिथ्यात्वमोहनीयादिनाम् देशतः क्षयो निर्मूलनाशः, अनुदितानां चोपशमः, क्षयेण युक्त उपशमः, क्षयोपशमः, स प्रयोजनमस्य क्षायोपशमिकम् । यतः
"मिच्छत्तं जमुझ्नं, तं खीणं अणुइअं च उवसंतं । मीसीभावपरिणयं, वेइज्जंतं खओवसमं ।।१।।" ति ।। तच्च सत्कर्मवेदकमप्युच्यते, औपशमिकं तु सत्कर्मवेदनारहितमित्यौपशमिकक्षायोपशमिकयोर्भेदः । यदाह"वेएइ संतकम्मं, खओवसमिएसु नाणुभावं से । उवसंतकसाओ उण, वेएइ न संतकम्मपि ।।१।।" [विशेषावश्यक भा. गा. १२९३] ३ ।
वेदकं क्षपकश्रेणिं प्रपन्नस्य चतुर(@)नन्तानुबन्धिषु मिथ्यात्वमिश्रपुञ्जद्वये च क्षपितेषु सत्सु क्षप्यमाणे सम्यक्त्वपुञ्ज तत्सम्यक्त्वचरमपुद्गलक्षपणोद्यतस्य तच्चरमपुद्गलवेदनरूपम् । यतः"वेअगमि अ पुव्वोइअचरमिल्लयपुग्गलग्गासं" [ ] ति ४ । सास्वादनं च पूर्वोक्तौपशमिकसम्यक्त्वात्पततो जघन्यतः समय उत्कर्षतश्च षडावलिकायामवशिष्टायामनन्तानुबन्ध्युदयात्तद्वमने तदास्वादरूपम् यतः - "उवसमसम्मत्ताओ, चयओ मिच्छं अपावमाणस्स । सासायणसम्मत्तं, तयंतरालंमि छावलिअं ।।१।।" [विशेषावश्यक भा. गा. ५३१] ५ । पञ्चानामप्येषां स्थितिकालमानादि चैवमाहुः - “अन्तमुहत्तुवसमओ १, छावलि सासाण २ वेअगो समओ ३ । साहिअतित्तीसायर, खइओ ४ दुगुणो खओवसमो ५।।१।।" [सम्बोधप्र. सम्य. गा. २२] [क्षयश्च] उपशम[श्च] क्षयोपशमः, स प्रयोजनमस्य क्षायोपशमिकम् । यतः -