________________
૧૮
ધર્મસંગ્રહ ભાગ-૨/ દ્વિતીય અધિકાર | શ્લોક-૨૨ "आलंबणमलहंती, जह सट्ठाणं न मुंचए इलिआ । एवं अकयतिपुंजी, मिच्छं चिअ उवसमी एइ ।।१।।" [गा. १२० सम्बोधप्र. सम्यक्त्व गा. ११] 'प्रथमं च सम्यक्त्वे लभ्यमाने कश्चित्सम्यक्त्वेन समं देशविरतिं सर्वविरतिं वा प्रतिपद्यते उक्तं च शतकबृहच्चूर्णी -
"उवसमसम्मट्ठिी अंतरकरणे ठिओ कोई देसविरइं पि लहेइ, कोई पमत्तापमत्तभावंपि, सासायणो पुण न किंपि लहेइ" [] त्ति ।
पुञ्जत्रयसंक्रमश्च कल्पभाष्ये एवमुक्तः-मिथ्यात्वदलिकात् पुद्गलानाकृष्य सम्यग्दृष्टिः प्रवर्द्धमानपरिणामः सम्यक्त्वे मिश्रे च संक्रमयति, मिश्रपुद्गलांश्च सम्यग्दृष्टिः सम्यक्त्वे, मिथ्यादृष्टिश्च मिथ्यात्वे सम्यक्त्वपुदगलांस्तु मिथ्यात्वे संक्रमयति, न तु मिश्रे । “मिच्छत्तंमि अखीणे, तिपुंजिणो सम्मद्दिट्ठिणो णियमा । खीणंमि उ मिच्छत्ते, दुएगपुंजी व खवगो वा ।।१।।" [बृहत्कल्प भाष्ये गा. ११७] मिथ्यात्वेऽक्षीणे सम्यग्दृष्टयो नियमात्रिपुञ्जिनः, मिथ्यात्वे क्षीणे द्विपुजिनः, मिश्रे क्षीणे एकपुञ्जिनः, सम्यक्त्वे तु क्षीणे क्षपकः, सम्यक्त्वपुद्गलाश्च शोधितमदनकोद्रवस्थानीया विरुद्धतैलादिद्रव्यकल्पेन कुतीर्थिकसंसर्गकुशास्त्रश्रवणादिमिथ्यात्वेन मिश्रिताः सन्तस्तत्क्षणादेव मिथ्यात्वं स्युः । यदाऽपि प्रपतितसम्यक्त्वः पुनः सम्यक्त्वं लभते, तदाऽप्यपूर्वकरणेन पुञ्जत्रयं कृत्वा अनिवृत्तिकरणेन सम्यक्त्वपुञ्ज एव गमनाद् द्रष्टव्यम् ।
पूर्वलब्धस्याप्यपूर्वकरणस्यापूर्वता, पूर्व स्तोकशः (सदृशकृतत्वेन) कृतत्वेनापूर्वमिवेति वृद्धाः, सैद्धान्तिकमतं चैतत्-सम्यक्त्वप्राप्ताविव देशविरतिसर्वविरत्योः प्राप्तावपि यथाप्रवृत्त्यपूर्वकरणे भवतो नत्वनिवृत्तिकरणम्, अपूर्वकरणाद्धाप्रा(समा)प्तावनन्तरसमये एव तयोर्भावात्, देशसर्वविरत्योः प्रतिपत्त्योरनन्तरमन्तर्मुहूर्तं यावदवश्यं जीवः प्रवर्द्धमानपरिणामस्तत ऊर्ध्वं त्वनियमः ।
ये चाऽभोगं विनैव कथंचित्परिणामहासाद्देशविरतेः सर्वविरतेर्वा प्रतिपतितास्तेऽकृतकरणा एव पुनस्तां लभन्ते, ये त्वाभोगतः प्रतिपतिता आभोगेनैव च मिथ्यात्वं गतास्ते जघन्यतोऽन्तर्मुहूर्तेनोत्कर्षतः प्रभूतकालेन यथोक्तकरणपूर्वकमेव पुनस्तां लभन्त इत्युक्तं कर्मप्रकृतिवृत्तौ, सैद्धान्तिकमते हि विराधितसम्यक्त्वो गृहीतेनापि सम्यक्त्वेन षष्ठपृथिवीं यावत् कोऽप्युत्पद्यते, कार्मग्रन्थिकमते तु वैमानिकेभ्योऽन्यत्र नोत्पद्यते, तेन गृहीतेनेत्युक्तं प्रवचनसारोद्धारवृत्तौ । [गा. ९६१/खण्ड २ प. १९१]