________________
धर्मसंग्रह लाग-२ | दितीय अधिकार | Pals-२२
"ऊसरदेसं दडिल्लयं व विज्झाइ वणदवो पप्प । इयमिच्छस्साणुदए, उवसमसम्मं लहइ जीवो ।।१।।" [विशेषावश्यकभाष्ये गा. २७३४] . "जीवादीणमधिगमो, मिच्छत्तस्स उ खओवसमभावे । अधिगमसंमं जीवो, पावेइ विसुद्धपरिणामो ।।२।।" त्ति । कृतं प्रसंगेन । तच्च कतिविधं भवतीत्याह-'पञ्चधेति' पञ्चप्रकारं स्यात् तद्यथा-औपशमिकम् १ क्षायिकम् २ क्षायोपशमिकम् ३ वेदकम् ४ सास्वादनं ५ चेति । तत्रौपशमिकं भस्मच्छन्नाग्निवत् मिथ्यात्वमोहनीयस्यानन्तानुबन्धिनां च क्रोधमानमायालोभानामनुदयावस्था उपशमः(स) प्रयोजनं= प्रवर्त्तकमस्य औपशमिकम्, तच्चानादिमिथ्यादृष्टेः करणत्रयपूर्वकमान्तर्मुहूर्तिकम्, चतुर्गतिकस्यापि संज्ञिपर्याप्तपञ्चेन्द्रियस्य जन्तोर्ग्रन्थिभेदानन्तरं भवतीत्युक्तप्रायम्, यद्वा उपशमश्रेण्यारूढस्य भवति यदाह"उवसमसेढिगयस्स, होइ उवसामगं तु सम्मत्तं । जो वा अकयतिपुंजो, अखवियमिच्छो लहइ सम्मं ।।१।।" ति ।। [विशेषाव. भा. २७३५]
ग्रन्थिप्रदेशं यावत्तु अभव्योऽपि सङ्ख्येयमसङ्ख्येयं वा कालं तिष्ठति । तत्र स्थितश्चाभव्यो द्रव्यश्रुतं भिन्नानि दशपूर्वाणि यावल्लभते, जिनर्द्धिदर्शनात्स्वर्गसुखार्थित्वादेव दीक्षाग्रहणे तत्संभवात् । 'अत एव भिन्नदशपूर्वान्तं श्रुतं मिथ्याश्रुतमपि स्यादित्यन्यदेतत् ।
अत्र च प्रसङ्गतः कश्चिद्विशेषो विशेषज्ञानार्थं दर्शाते, यथाऽन्तरकरणाद्यसमय एवौपशमिकसम्यक्त्ववान्, तेन चौषधविशेषकल्पेन शोधितस्य मदनकोद्रवकल्पस्य मिथ्यात्वस्य शुद्धार्द्धशुद्धाशुद्धरूपपुञ्जत्रयमसौ करोत्येव, अत एवौपशमिकसम्यक्त्वाच्च्युतोऽसौ क्षायोपशमिकसम्यग्दृष्टिमिश्रो मिथ्यादृष्टिर्वा भवति । उक्तं च“कम्मग्गंथेसु धुवं, पढमोवसमी करेइ पुंजतिअं । तव्वडिओ पुण गच्छइ, सम्मे मीसंमि मिच्छे वा ।।१।।"
इदं च कार्मग्रन्थिकमतम् । सैद्धान्तिकमतं त्वेवं-यदुत-अनादिमिथ्यादृष्टिः कोऽपि तथाविधसामग्रीसद्भावेऽपूर्वकरणेन पुजत्रयं कृत्वा शुद्धपुद्गलान् वेदयन्नौपशमिकसम्यक्त्वमलब्ध्वैव प्रथमत एव क्षायोपशमिकसम्यग्दृष्टिर्भवति, अन्यस्तु यथाप्रवृत्त्यादिकरणत्रयक्रमेणान्तरकरणे औपशमिकसम्यक्त्वं लभते, पुञ्जत्रयं त्वसौ न करोत्येव, ततश्चौपशमिकसम्यक्त्वच्युतोऽवश्यं मिथ्यात्वमेव याति । उक्तं च कल्पभाष्ये