________________
૨૦
ધર્મસંગ્રહ ભાગ-૨ | દ્વિતીય અધિકાર | શ્લોક-૨૨ दुगुणोत्ति पूर्वस्माद् द्विगुणः स्थितिकालः षट्षष्टिः सागरोपमाणि समधिकानि क्षायोपशमिकस्य स्थितिरित्यर्थः । सा चैवम्"दोवारे विजयाइसु, गयस्स तिनच्चुए अहव ताई । अइरेगं नरभविअं, नाणाजीवाण सव्वद्धं ।।१।।" [विशेषावश्यक भाष्ये गा. ४३६] त्ति । “उक्कोसं सासायणउवसमिआ हुंति पंचवाराओ । वेअगखइगा इक्कसि, असंखवारा खओवसमो ।।२।।" [सम्यक्त्व स्तवप्र. गा. २२] “तिण्हं सहसपुहुत्तं, सयप्पुहुत्तं च होई विरईए । एगभवे आगरिसा, एवइआ हुंति णायव्वा ।।३।।" [सम्बोधप्र. सम्य. गा. ३१] 'तिण्हंति श्रुतसम्यक्त्वदेशविरतीनाम् । 'आगरिस'त्ति आकर्षः प्रथमतया मुक्तस्य वा ग्रहणम्, एते आकर्षा उत्कर्षतो जघन्यतस्त्वेक एव ।
“तिण्हं सहसमसंखा, सहसपुहुत्तं च होइ विरईए । नाणाभव आगरिसा, एवइआ हुंति णायव्वा ।।४।।" [सम्बोधप्र. सम्य. गा. ३२] "बीअगुणे सासाणं, तुरिआइसु अट्ठिगारचउचउसु । उवसमगखइअवेअगखाओवसमा कमा हुति ।।५।।" [सम्यक्त्वस्तव प्र. गा. २३] “संमत्तंमि उ लद्धे, पलिअपुहुत्तेण सावओ हुज्जा । चरणोवसमखयाणो, सागर संखंतरा हुँति ।।६।।" [विशेषावश्यकभाष्ये गा. १२२२] "इअ(अप्प)परिवडिए सम्मे, सुरमणुए इगभवेवि सव्वाणि । इगसेढिवज्जिआई, सिवं च सत्तट्ठभवमज्झे ।।७।।" 'क्षायिकसम्यग्दृष्टिस्तु तृतीये चतुर्थे तस्मिन् भवे वा सिद्ध्यति । उक्तं च पञ्चसङ्ग्रहादौ - “तइअचउत्थे तंमि व, भवंमि सिझंति दंसणे खीणे । जं देवनिरयसंखाउ, चरमदेहेसु ते हुंति ।।८।।" [गा. ७७८] व्याख्या-"बद्धायुः क्षीणसप्तको यदि देवगतिं नरकगतिं वा याति, तदा तद्भवान्तरितस्तृतीयभवे सिद्ध्यति । अथ तिर्यक्षु नृषु वोत्पद्यते, सोऽवश्यमसङ्ख्येयवर्षायुष्केष्वेव, नतु सङ्ख्येयवर्षायुष्केषु तद्भवानन्तरं च देवभवे, ततो नृभवे सिद्ध्यतीति चतुर्थभवे मोक्षः । अबद्धायुश्च तस्मिन्नेव भवे क्षपकश्रेणिं संपूर्णीकृत्य सिद्ध्यतीत्यर्थः ।"
एकं जीवं नानाजीवान्वाऽपेक्ष्य सम्यक्त्वोपयोगो जघन्यत उत्कृष्टतश्चान्तर्मुहूर्तमेव, क्षयोपशमरूपा तल्लब्धिस्त्वेकजीवस्य जघन्याऽन्तर्मुहूर्त्तमुत्कृष्टा तु ६६ सागराणि नृभवाधिकानि तत ऊर्ध्वं