________________
૨૦૮
ધર્મસંગ્રહ ભાગ-૨ | દ્વિતીય અધિકાર | શ્લોક-૨૪ चेति ब्रूते २ यदा तु वाचा कायेन न करोति न कारयति; तदा मनसैवाभिसन्धिमधिकृत्य करोति कारयति च ३ अनुमतिस्तु त्रिभिः सर्वत्रैवास्ति, एवं शेषविकल्पा अपि भावनीयाः ।
द्विविधमेकविधेनेति तृतीयः, अत्राप्युत्तरभङ्गास्त्रयः द्विविधं करणं कारणं च, एकविधेन मनसा, यद्वा वचसा, यद्वा कायेन । एकविधं त्रिविधेनेति चतुर्थः अत्र च द्वौ भङ्गौ, एकविधं करणम्, यद्वा कारणम्, त्रिविधेन मनसा वाचा कायेन । एकविधं द्विविधेनेति पञ्चमः । अत्रोत्तरभेदाः षट्, एकविधं करणं यद्वा कारणं, द्विविधेन मनसा वाचा, यद्वा मनसा कायेन, यद्वा वाचा कायेन । एकविधमेकविधेनेति षष्ठः, अत्रापि प्रतिभङ्गाः षट्, एकविधं करणं यद्वा कारणम्, एकविधेन मनसा यद्वा वाचा यद्वा कायेन । तदेवं मूलभङ्गाः षट्, षण्णामपि च मूलभङ्गानामुत्तरभङ्गाः सर्वसङ्ख्ययैकविंशतिः तथा चोक्तम् -
-
“दुविहतिविहा २ २ २ १११ य छच्चि, तेसिं भेआ कमेणि हुंति ।
पढमिक्को दुन्नि तिआ, दुगेग दो छक्क इगवीसं ३ २१३२१ । । १ । ।" [ श्रावकव्रतभंग प्र. गा. ९, प्रवचनसारोद्धारे १३२९]
स्थापना चेयम् एवं च षड्भिर्भङ्गैः कृताभिग्रहः षड्विधः श्राद्धः १३३२६६, सप्तमश्चोत्तरगुणःप्रतिपन्नगुणव्रतशिक्षाव्रताद्युत्तरगुणः अत्र च सामान्येनोत्तरगुणानाश्रित्यैक एव भेदो विवक्षितः, अविरतश्चाष्टमः ।
तथा पञ्चस्वप्यणुव्रतेसु प्रत्येकं षड्भङ्गीसम्भवेन उत्तरगुणाविरतमीलनेन च द्वात्रिंशभेदा अपि श्राद्धानां भवन्ति । यदुक्तम् -
-
“दुविहा विरयाविरया, दुविह तिविहाइणट्ठहा हुंति ।
वयमेगेगं छ च्चिय, गुणिअं दुगमिलिअ बत्तीसं ॥ | १ || " [ श्रावकव्रतभङ्ग प्र. ३, प्रवचनसारोद्धारे १३२३] ति ।
अत्र च द्विविधत्रिविधादिना भङ्गनिकुरम्बेण श्रावकार्हपञ्चाणुव्रतादिव्रतसंहतिभङ्गकदेवकुलिकाः सूचिताः ताश्चैकैकव्रतं प्रत्यभिहितया षड्भङ्ग्या निष्पद्यन्ते तासु च प्रत्येकं त्रयो राशयो भवन्ति तद्यथा - आदौ गुण्यराशिर्मध्ये गुणकराशिरन्ते चागतराशिरिति तत्र पूर्वमेतासामेव देवकुलिकानां षड्भङ्ग्या विवक्षितव्रतभङ्गकसर्वसङ्ख्यारूपा एवंकारराशयश्चैवम्
“एगवए छब्भङ्गा, निद्दिट्ठा सावयाण जे सुत्ते ।
ते च्चिअ पयवुड्डीए, सत्तगुणा छज्जुआ कसो || १ ||" [ श्रावकव्रतभङ्ग प्र. १०, प्रवचनसारोद्धारे १३३०]
सर्वभङ्गराशिं जनयन्तीति शेषः ।