________________
ધર્મસંગ્રહ ભાગ-૨ | દ્વિતીય અધિકાર | શ્લોક-૨૪
वचननिर्देशः, स सर्वत्र विरतिसामान्यापेक्षयेति, 'शम्भवः' तीर्थकराः 'आहुः' प्रतिपादितवन्तः, किमविशेषण विरतिः ? नेत्याह 'व्रतभङ्गेने 'त्यादि 'केनचित् ' द्विविधत्रिविधादीनामन्यतमेन 'व्रतभङ्गेन' व्रतप्रकारेण, बाहुल्येन हि श्रावकाणां द्विविधत्रिविधादयः षडेव भङ्गाः संभवन्तीति तदादिभङ्गजालग्रहणमुचितमितिभावः ते च भङ्गा एवम् - श्राद्धा विरता अविरताश्चेति सामान्येन द्विविधा अपि विशेषतोऽष्टविधा भवन्ति । यत् आवश्यके
“साभिग्गहा य णिरभिग्गहा य ओहेण सावया दुविहा ।
ते पुण विभज्जमाणा, अट्ठविहा हुंति णायव्वा । । १ । । " [ आवश्यक निर्युक्तिः १५५७]
साभिग्रहा विरता आनन्दादयः, अनभिग्रहा अविरताः कृष्णसत्यकिश्रेणिकादय इति, अष्टविधा द्विविधत्रिविधादिभङ्गभेदेन भवन्ति । तथाहि
“दुविहं तिविहेण पढमो, दुविहंदुविहेण बीअओ होइ ।
दुविहं एगविहेणं, एगविहं चेव तिविहेणं ॥ १ ।।
૨૦૭
एगविहं दुविहेणं, एगेगविहेण छट्ठओ होइ ।
उत्तरगुण सत्तमओ, अविरओ चेव अट्ठमओ ।।२।। " [ आव. नि. १५५८- ९]
द्विविधं कृतं कारितम्, त्रिविधेन मनसा वचसा कायेन, यथा-स्थूलहिंसादिकं न करोत्यात्मना न कारयत्यन्यैर्मनसा वचसा कायेनेत्यभिग्रहवान् प्रथमः; अस्य चानुमतिरप्रतिषिद्धा, अपत्यादिपरिग्रहसद्भावात्, तैहिंसादिकरणे तस्यानुमतिप्राप्तेः, अन्यथा - परिग्रहाऽपरिग्रहयोरविशेषेण प्रव्रजिताप्रव्रजितयोरभेदापत्तेः ।
त्रिविधत्रिविधादयस्तु भङ्गा गृहिणमाश्रित्य भगवत्युक्ता अपि क्वाचित्कत्त्वान्नेहाधिकृताः, बाहुल्येन षड्भिरेव विकल्पैस्तेषां प्रत्याख्यानग्रहणात् बाहुल्यापेक्षया चास्य सूत्रस्य प्रवृत्तेः, क्वाचित्कत्वं तु तेषां विशेषविषयत्वात्, तथाहि - यः किल प्रविव्रजिषुः पुत्रादिसन्ततिपालनाय प्रतिमाः प्रतिपद्यते, यो वा विशेषं स्वयम्भूरमणादिगतं मत्स्यादिमांसं दन्तिदन्तचित्रकचर्मादिकं स्थूलहिंसादिकं वा क्वचिदवस्थाविशेषे प्रत्याख्याति, स एव त्रिविधंत्रिविधादिना करोतीत्यल्पविषयत्वान्नोच्यते ।
तथा द्विविधं द्विविधेनेति द्वितीयो भङ्गः अत्र चोत्तरभङ्गास्त्रयः, तत्र द्विविधं स्थूलहिंसादिकं न करोति न कारयति द्विविधेन मनसा वचसा १, यद्वा मनसा कायेन २, यद्वा वाचा कायेनेति ३ । तत्र यदा मनसा वचसा न करोति न कारयति, तदा मनसाऽभिसन्धिरहित एव वाचाऽपि हिंसादिकमब्रुवन्नेव कायेन दुश्चेष्टितादि असंज्ञिवत्करोति १ यदा तु मनसा कायेन न करोति न कारयति, तदा मनसाऽभिसन्धिरहित एव कायेन दुश्चेष्टितादि परिहरन्नेवानाभोगाद्वा ( द्वा वा ) चैव हन्मि घातयामि