________________
૧૩૨
ધર્મસંગ્રહ ભાગ-૨ / દ્વિતીય અધિકાર | શ્લોક-૨૨ यथा मूलरहितः पादपः पवनकम्पितस्तत्क्षणादेव निपतति, एवं धर्मतरुरपि सम्यक्त्वहीनः कुतीर्थिकमतान्दोलितः १ ।
द्वारमिव द्वारं प्रवेशमुखमितिभावः, यथा ह्यकृतद्वारं नगरं सन्ततप्राकारवलयवेष्टितमप्यनगरं भवति, जनप्रवेशनिर्गमाभावात्, एवं धर्मपुरमपि सम्यक्त्वद्वारशून्यमशक्याधिगमं स्यादिति २ । __पइट्ठाणं-प्रतिष्ठते प्रासादोऽस्मिन्निति प्रतिष्ठानं पीठम्, ततः प्रतिष्ठानमिव प्रतिष्ठानम्, यथा पृथ्वीतलगतगर्तापूरकरहितः प्रासादः सुदृढो न भवति । तथा धर्महर्म्यमपि सम्यक्त्वरूपप्रतिष्ठानं विना निश्चलं न भवेदिति ३ ।
आहारोत्ति आधारः यथा धरातलमन्तरा निरालम्बं जगदिदं न तिष्ठति, एवं धर्मजगदपि सम्यक्त्वलक्षणाधारव्यतिरेकेण न तिष्ठेदिति ४ ।
भायणंति भाजनं पात्रमित्यर्थः, यथा हि पात्रविशेषं विना क्षीरादि वस्तु विनश्यति, एवं धर्मवस्त्वपि सम्यक्त्वभाजनं विना ५ ।
निहित्ति निधिः यथा हि निधिव्यतिरेकेण महार्हमणिमौक्तिककनकादि द्रव्यं न प्राप्यते, तथा सम्यक्त्वनिधानमन्तरा चारित्रधर्मरत्नमपि ६ । इत्येताभिः षड्भिर्भावनाभिर्भाव्यमानमिदं सम्यक्त्वमविलम्बेन मोक्षसुखसाधकं भवतीति । .
षट्स्थाने-अस्थित्ति-अस्ति विद्यते, चशब्दस्याऽवधारणार्थत्वाज्जीव इति गम्यते, एतेन नास्तिकमतं निरस्तम् १ ।
'निच्चो'त्ति-स च जीवो नित्य उत्पत्तिविनाशरहितः, तदुत्पादककारणाभावादित्यादिना शौद्धोदनिमतमपध्वस्तम् २ ।
'कुणइ' त्ति स च जीवः करोति मिथ्यात्वाऽविरतिकषायादिबन्धहेतुयुक्ततया तत्तत्कर्माणि निवर्तयति । एतेन कापिलकल्पनाप्रतिक्षेपः ३ ।
‘कयमिति' कृतं कर्म च वेद्यते “सव्वं पएसतया भुज्जइ" [ ] तिवचनादनेन सर्वथाऽभोक्तृजीववादी दुर्नयो निराकृतः ४ । _ 'अत्थि निव्वाणं'ति अस्य च जीवस्यास्ति विद्यते, निर्वाणं मोक्षः, स च जीवस्य रागद्वेषमदमोहजन्मजरारोगादिदुःखक्षयरूपोऽवस्थाविशेष इतियावद् । एतेन प्रदीपनिर्वाणकल्पमभावरूपं निर्वाणमित्यादि सङ्गिरमाणाः सौगतविशेषाः व्युदस्ताः, ते च प्रदीपस्येवास्य सर्वथा ध्वंस एव निर्वाणमाहुस्तथा च तद्वचः -