________________
१30
धर्मसंग्रह भाग-२ | दितीय अधिकार | Rो-२२ तस्याः परिहारः । एष दशस्थानविषयत्वाद्दशविधो दर्शनविनयः, सम्यक्त्वे सत्यस्य भावात् सम्यक्त्वविनयः ।
त्रिशुद्ध्यां जिनं वीतरागं, जिनमतं स्यात्पदलाञ्छितं, जिनमतस्थितांश्च साध्वादीन् मुक्त्वा शेषमेकान्तग्रस्तं जगदपि संसारमध्ये कत्तवारं-कचवरप्रायम् असारमित्यर्थः, इतिचिन्तया सम्यक्त्वस्य विशोध्यमानत्वादेतास्तिस्रः शुद्धय इति ।
पञ्च दोषा अग्रे मूल एव वक्ष्यमाणाः ।
अष्टप्रभावनायां - प्रभवति जैनेन्द्र शासनम्, तस्य प्रभवतः प्रयोजकत्वं प्रभावना, सा चाष्टधा प्रभावकभेदेन, तत्र प्रवचनं द्वादशाङ्गं गणिपिटकम्, तदस्यास्तीति प्रावचनी युगप्रधानागमः १ । धर्मकथा प्रशस्ताऽस्यास्तीति धर्मकथी, 'शिखादित्वादिन् आक्षेपणी १ विक्षेपणी २ संवेगजननी ३ निवेदनी ४ लक्षणां चतुर्विधां जनितजनमनःप्रमोदां धर्मकथां कथयति सः २ । वादिप्रतिवादिसभ्यसभापतिरूपायां चतुरङ्गायां परिषदि प्रतिपक्षक्षेपपूर्वकं स्वपक्षस्थापनार्थमवश्यं वदतीति वादी ३ । निमित्तं त्रैकालिकलाभाऽलाभप्रतिपादकं शास्त्रम्, तद्वेत्त्यधीते वा नैमित्तिकः ४ । तपो विकृष्टमष्टमाद्यस्यास्तीति तपस्वी ५ । विद्याः प्रज्ञप्त्यादयस्तद्वान् विद्यावान् ६ । सिद्धयोऽञ्जनपादलेपतिलकगुटिकाकर्षणवैक्रियत्वप्रभृतयस्ताभिः सिद्ध्यति स्म सिद्धः ७ । कवते गद्यपद्यादिभिः प्रबन्धैर्वर्णनामिति कविर्गद्यपद्यप्रबन्धरचकः ८ । एते प्रावचन्यादयोऽष्टौ प्रभवतो भगवच्छासनस्य यथायथं देशकालाद्यौचित्येन साहाय्यकरणात् प्रभावकाः, प्रभवन्तं स्वतः प्रकाशकस्वभावमेव प्रेरयन्तीति व्युत्पत्तेः, तेषां कर्म प्रभावना इत्थं च मूलद्वारगाथायाम् अष्टौ प्रभावना यत्रेति समासः ।
भूषणपञ्चके-जिनशासनेऽर्हद्दर्शनविषये कुशलता नैपुण्यं १, प्रभावना प्रभावनमित्यर्थः । सा च प्रागष्टधाऽभिहिता, यत्पुनरिहोपादानं तदस्याः स्वपरोपकारित्वेन तीर्थकरनामकर्मनिबन्धनत्वेन च प्राधान्यख्यापनार्थम् २, तथा तीर्थं द्रव्यतो जिनदीक्षाज्ञाननिर्वाणस्थानं यदाह
"जम्मं दिक्खा नाणं, तित्थयराणं महाणुभावाणं । जत्थ य किर निव्वाणं, आगाढं दंसणं होइ ।।१।।" त्ति । भावतस्तु ज्ञानदर्शनचारित्राधारः, श्रमणसवः, प्रथमगणधरो वा, यदाह- . "तित्थं भंते! तित्थं तित्थयरे तित्थं? गोयमा! अरहा ताव नियमा तित्थयरे, तित्थं पुण चाउव्वण्णे समणसंघे पढमगणहरे वा" [भगवती सूत्रे श.२० उ.८ / सू.६८२] इति । तस्य सेवनम् ३ ।
स्थिरता जिनधर्मं प्रति परस्य स्थिरताऽऽपादनम्, स्वस्य वा परतीर्थिकसमृद्धिदर्शनेऽपि जिनप्रवचनं प्रति निष्प्रकम्पता ४ । भक्तिः प्रवचने विनयवैयावृत्त्यरूपा प्रतिपत्तिः, एते गुणाः सम्यक्त्वस्य