________________
ધર્મસંગ્રહ ભાગ-૨ / દ્વિતીય અધિકાર | શ્લોક-૨૨
૧૨૯
छट्ठाणंति - "अत्थि अ १ णिच्चो २, कुणई ३, कयं च वेएइ ४ अस्थि णिव्वाणं ५ । अत्थि अ मुक्खोवाओ ६, छस्सम्मत्तस्स ठाणाई ।।१६।।" [प्रवचनसारोद्धारे गा.९२६-४१]
अथैतासां विषमपदार्थो यथा-परमार्था जीवादयस्तेषां संस्तवः परिचयः १, सुमुनितपरमार्था यतिजना आचार्यादयः, तेषां सेवनम् २, व्यापन्नदर्शना निह्नवादयः ३, कुदर्शनाः शाक्यादयः ४, तेषां वर्जनं त्यागः 'सम्मत्तसद्दहणा' इति सम्यक्त्वं श्रद्धीयतेऽस्तीतिप्रतिपद्यतेऽनेनेति सम्यक्त्वश्रद्धानम् । न चाङ्गारमईकादेरपि परमार्थसंस्तवादिसम्भवाद् व्यभिचारिता शङ्क्या, तात्त्विकानामेतेषां इहाधिकृतत्वात् तस्य च तथाविधानामेषामसंभवादिति, इह प्राकृतत्वाल्लिङ्गमतन्त्रमिति स्त्रीत्वम् मूलद्वारगाथायां च चतुःश्रद्धानादिशब्दानां चतुर्विधं श्रद्धानं चतुःश्रद्धानम् । . त्रिविधं लिङ्गं त्रिलिङ्गम्-दशविधोविनयो दशविनयः । त्रिविधा शुद्धिस्त्रिशुद्धिरित्यादि व्युत्पत्तिज्ञेया । त्रिलिङ्गे-श्रोतुमिच्छा शुश्रूषा, सद्बोधावन्ध्यनिबन्धनधर्मशास्त्रश्रवणवाञ्छेत्यर्थः । सा च वैदग्ध्यादिगुणवत्तरुणनरकिन्नरगानश्रवणरागादप्यधिकतमा सम्यक्त्वे सति भवति । यदाह - "यूनो वैदग्ध्यवतः, कान्तायुक्तस्य कामिनोऽपि दृढम् । किन्नरगेयश्रवणादधिको धर्मश्रुतौ रागः ।।१।।" [षोडशके ११/३] इति १ । तथा धर्मे चारित्रलक्षणे रागः, श्रुतधर्मरागस्य तु शुश्रूषापदेनैवोक्तत्वात् स च कर्मदोषात्तदकरणेऽपि कान्तारातीतदुर्गतबुभुक्षाक्षामकुक्षिब्राह्मणघृतभोजनाभिलाषादप्यतिरिक्तो भवति २ ।
तथा गुरवो धर्मोपदेशका देवा अर्हन्तस्तेषां वैयावृत्त्ये तत्प्रतिपत्तिविश्रामणाभ्यर्चनादौ नियमोऽवश्यकर्त्तव्यतागीकारः स च सम्यक्त्वे सति भवतीति, तानि सम्यग्दृष्टेः धर्मधर्मिणोरभेदोपचारात् सम्यक्त्वस्य लिङ्गानि, एभिस्त्रिभिर्लिङ्गः सम्यक्त्वं समुत्पन्नमस्तीति निश्चीयत इति भावः । वैयावृत्त्यनियमस्य च तपोभेदत्वेन चारित्रांशरूपत्वेऽपि सम्यक्त्वसत्त्वे चावश्यंभावित्वेऽपि नाविरतसम्यग्दृष्टिगुणस्थानकाऽभावप्रयोजकतोद्भाव्या, एतद्रूपचारित्रस्याल्पतमत्वेनाचारित्रतया विवक्षितत्वात् संमूर्छनजानां संज्ञामात्रसद्भावेऽपि विशिष्टसंज्ञाऽभावादसंज्ञित्वव्यपदेशवदिति । उपशान्तमोहादिषु तु कृतकृत्यत्वादेषां साक्षादभावेऽपि फलतया सद्भावान तेष्वप्येतेषां व्यभिचारः, वैयावृत्त्यनियमश्चोपरिष्टात् श्राद्धविधिपाठेन दर्शयिष्यत इति ततोऽवसेयः ।
दशविनये चैत्यान्यर्हत्प्रतिमाः, प्रवचनं जीवादितत्त्वं, दर्शनम् सम्यक्त्वं तदभेदोपचारात्तद्वानपि दर्शनमुच्यते, एतेषु दशसु भक्तिरभिमुखागमनाऽऽसनप्रदान-पर्युपास्त्यञ्जलिबन्धाद्या, पूजा सत्काररूपा, वर्णः प्रशंसा, तज्जननमुद्भासनम्, अवर्णवादस्याश्लाघाया वर्ज़नं परिहारः, आशातना प्रतीपवर्त्तनं