________________
૯૮
ધર્મસંગ્રહ ભાગ-૨ | દ્વિતીય અધિકાર | શ્લોક-૨૨ श्रद्धानवतोऽभिनिवेशित्वप्रसङ्ग इति तद्वारणार्थं 'जानतोऽपीति' शास्त्रतात्पर्यबाधप्रतिसन्धानवत इत्यर्थः, सिद्धसेनादयश्च स्वाभ्युपगतमर्थं शास्त्रतात्पर्यबाधं प्रतिसन्धायापि पक्षपातेन न विप्रतिपन्नवन्तः किन्त्वविच्छिन्नप्रावचनिकपरम्परया शास्त्रतात्पर्यमेव स्वाभ्युपगतार्थानुकूलत्वेन प्रतिसन्धायेति न तेऽभिनिवेशिनो गोष्ठामाहिलादयस्तु शास्त्रतात्पर्यबाधं प्रतिसन्धायैवान्यथा श्रद्दधत इति न दोषः । इदमपि मतिभेदाभिनिवेशादिमूलभेदादनेकविधम् जमालिगोष्ठामाहिलादीनाम् उक्तं च व्यवहारभाष्ये"मइभेएण जमाली, पुट्विं वुग्गाहिएण गोविंदो । संसग्गीए भिक्खू, गोट्ठामाहिल अहिणिवेसे ।।१।।" त्ति ३] सांशयिकं देव-गुरु-धर्मेष्वयमन्यो वेति संशयानस्य भवति । [सूक्ष्मार्थादिविषयस्तु संशयः साधूनामपि भवति, स च “तमेव सच्चं णीसंकं, जं जिणेहिं पवेइअं" [भगवतीसूत्रे इत्याद्यागमोदितभगवद्वचनप्रामाण्यपुरस्कारेण निवर्त्तते स्वरसवाहितया अनिवर्तमानश्च सः सांशयिकमिथ्यात्वरूपः सन्ननाचारापादक एव अत एवाकाङ्क्षामोहोदयादाकर्षप्रसिद्धिः । इदमपि सर्वदर्शनजैनदर्शनतदेकदेशपदवाक्यादिसंशयभेदेन बहुविधम्।]
अनाभोगिकं विचारशून्यस्यैकेन्द्रियादेर्वा विशेषज्ञानविकलस्य भवति, इदमपि सर्वांशविषयाव्यक्तबोधस्वरूपं विवक्षितकिञ्चिदंशाव्यक्तबोधस्वरूपं चेत्यनेकविधम् । [एतेषु मध्ये आभिग्राहिकाऽऽभिनिवेशिके गुरुके, विपर्यासरूपत्वेन सानुबन्धक्लेशमूलत्वात् । शेषाणि च त्रीणि (न) विपरीतावधारणरूपविपर्यासव्यावृत्तत्वेन तेषां क्रूरानुबन्धफलकत्वाभावात्तदुक्तं चोपदेशपदे - ..
"एसो अ एत्थ गुरुओ, णाणज्झवसायसंसया एवं ।। जम्हा असप्पवित्ती, एत्तो सव्वत्थणत्थफला ।।१।।" [गा. १९८]
दुष्प्रतीकाराऽसत्प्रवृत्तिहेतुत्वेन एष विपर्यासोऽत्र गरीयान् दोषः, नत्वनध्यवसायसंशयावेवंभूतातत्त्वाभिनिवेशाभावात्, तयोः सुप्रतीकारत्वेनात्यन्तानर्थसम्पादकत्वाभावादित्येतत्तात्पर्यार्थः].
एवं सर्वथा सर्वप्रकारमिथ्यात्वपरिहारेण सम्यक्त्वं गुरुसमक्षमालापकोच्चारपूर्वं प्रतिपत्तव्यम्, तस्यानन्दादिश्रावकोपदर्शितविधिनैव प्रतिपत्त्यौचित्यात् तथा चोक्तमावश्यकनिर्युक्तौ ।
"तत्थ समणोवासओ पुव्वामेव मिच्छत्ताओ पडिक्कमइ, सम्मत्तं उवसंपज्जइ, नो से कप्पइ अज्जप्पभिई अन्नउत्थिए वा अन्नउत्थिअदेवयाणि वा अन्नउत्थिअपरिग्गहिअरिहंतचेइयाई वा वंदित्तए वा णमंसित्तए वा, पुट्विं अणालित्तएणं आलवित्तए वा संलवित्तए वा, तेसिं असणं वा पाणं वा खाइमं वा साइमं वा दाउं वा अणुप्पदाउं वा, णण्णत्थ रायाभिओगेणं गणाभिओगेणं बलाभिओगेणं देवयाभिओगेणं गुरुनिग्गहेणं वित्तीकंतारेणं" [आवश्यक सूत्रे ६/३६ हारिभद्री वृत्तिः पृ. ८११] ति ।