________________
ધર્મસંગ્રહ ભાગ-૨/ દ્વિતીય અધિકાર | શ્લોક-૨૨ તો લોકમાં યક્ષાદિના આરાધનની પ્રવૃત્તિ થઈ રહી છે તે પ્રવૃત્તિને સ્થિર કરવામાં તે શ્રાવક નિમિત્ત બને છે. તેથી અન્ય દેવોમાં ઉપાસ્યદેવની બુદ્ધિ સ્થિર કરાવવામાં જે શ્રાવક નિમિત્તકારણ બને તેને પણ દુર્લભબોધિપણાની પ્રાપ્તિ છે. માટે સમ્યક્તના રક્ષણાર્થે શ્રાવકે ઐહિકાદિ અર્થે પણ યક્ષાદિની ભક્તિ કરવી જોઈએ નહિ; કેમ કે વર્તમાનમાં સ્વભાવથી જ મિથ્યાત્વની પ્રવૃત્તિ પ્રવર્તે છે અને તેમાં અતિશય કરવાનું નિમિત્ત કારણ ઐહિકાદિ અર્થે યક્ષની ઉપાસના કરનાર શ્રાવક બને તેવી સંભાવના છે. टी :
अथ मिथ्यात्वं पञ्चविधं, यदाह“आभिग्गहिअमणभिग्गहं च तह अभिनिवेसिअं चेव । संसइअमणाभोगं, मिच्छत्तं पंचहा एअं ।।१।।" [पञ्चसंग्रहे गा. ८६/संबोधप्र. सम्य. गा. ४७] तत्राभिग्रहिकं पाखण्डिनां स्वशास्त्रनियन्त्रितविवेकालोकानां परपक्षप्रतिक्षेपदक्षाणाम्, जैनानां च धर्माऽधर्मवादेन परीक्षापूर्वं तत्त्वमाकलय्य स्वाभ्युपगतार्थं श्रद्धमानानां परपक्षप्रतिक्षेपणदक्षत्वेऽपि नाभिग्रहिकत्वम्, स्वशास्त्रानियन्त्रितत्वाद्विवेकालोकस्य, यस्तु नाम्ना जैनोऽपि स्वकुलाचारेणैवागमपरीक्षां बाधते, तस्याभिग्राहिकत्वमेव, सम्यग्दृशोऽपरीक्षितपक्षपातित्वायोगात् । तदुक्तं हरिभद्रसूरिभिः
"पक्षपातो न मे वीरे, न द्वेषः कपिलादिषु । युक्तिमद्वचनं यस्य, तस्य कार्यः परिग्रहः ।।१।।" [लोकतत्त्वनिर्णये गा. ३८.] इति ।
गीतार्थनिश्रितानां माषतुषादिकल्पानां तु प्रज्ञापाटवाभावाद्विवेकरहितानामपि गुणवत्पारतन्त्र्यान दोष इति भावः तच्च नास्त्यात्मेत्यादि षड्विकल्पैः षड्विधम् १ ।
अनाभिग्रहिकं प्राकृतजनानाम्, सर्वे देवा वन्द्या न निन्दनीया, एवं सर्वे गुरवः सर्वे धर्मा इतीत्याद्यनेकविधम् २ ।
आभिनिवेशिकं जानतोऽपि यथास्थितं दुरभिनिवेशविप्लावितधियो गोष्ठामाहिलादेरिव ३ । [अभिनिवेशोऽनाभोगात्प्रज्ञापकदोषाद्वा वितथश्रद्धानवति सम्यग्दृष्टावपि स्याद् अनाभोगाद्गुरुनियोगाद्वा सम्यग्दृष्टेरपि वितथश्रद्धानभणनात् तथा चोक्तमुत्तराध्ययननिर्युक्तौ- . “सम्मद्दिट्ठी जीवो, उवइ8 पवयणं तु सद्दहइ । सद्दहइ असब्भावं, अणभोगा गुरुणिओगा वा ।।१।।" [गा. १६३] इति । तद्वारणाय दुरिति विशेषणम्, सम्यग्वक्तृवचनानिवर्तनीयत्वं तदर्थः, अनाभोगादिजनितो मुग्धश्राद्धादीनां वितथश्रद्धानरूपोऽभिनिवेशस्तु सम्यग्वक्तृवचननिवर्तनीय इति न दोषः तथापि जिनभद्रसिद्धसेनादिप्रावचनिकप्रधानविप्रतिपत्तिविषयपक्षद्वयेऽप्यन्यतरस्य वस्तुनः शास्त्रबाधितत्वात्तदन्यतर