________________
ce
ધર્મસંગ્રહ ભાગ-૨ / દ્વિતીય અધિકાર | શ્લોક-૨૨
योगशास्त्रवृत्तावपि “एवंविधं च सम्यक्त्वं विशिष्टद्रव्यादिसामग्र्यां सत्यां गुरोः समीपे विधिना प्रतिपद्य , श्रावको यथावत्पालयति यतः
"समणोवासओ तत्थ, मिच्छत्ताउ पडिक्कमे । दव्वओ भावओ पुट्विं, सम्मत्तं पडिवज्जए ।।१।। न कप्पई से परतित्थिआणं, तहेव तेसिं चिअ देवयाणं । परिग्गहेताण य चेइआणं, पहावणावंदणपूअणाई ।।२।। लोआण तित्थेसु सिणाणदाणं, पिंडप्पदाणं हुणणं तवं च ।
संकंतिसोमग्गहणाइएसुं, पभूअलोआण पवाहकिच्चं ।।३।।" [मूलशुद्धि प्र. ४-६, योगशास्त्रवृत्ति २/ १७] ति । · इत्थं च सम्यक्त्वाणुव्रतादिप्रतिपत्तिः सर्वाऽपि गुरुसाक्षिकैव फलवती, नान्यथा, यतः पञ्चाशके वधवजनविधिप्रस्तावे -
"गुरुमूले सुअधम्मो, संविग्गो इत्तरं च इअरं वा । गिण्हइ वयाइ कोई, पालेइ तहा निरइआरं ।।१।।" [१/९] वृत्तिर्यथा-"गुरुः सम्यग्ज्ञानक्रियायुक्तः सम्यग् धर्मशास्त्रार्थदेशको । यदाहधर्मज्ञो धर्मकर्ता च, सदा धर्मपरायणः । सत्त्वेभ्यो धर्मशास्त्रार्थदेशको गुरुरुच्यते ।।१।।" अथवा"जो जेण सुद्धधम्मे, निजोजिओ संजएण गिहिणा वा । सो चेव तस्स भण्णइ, धम्मगुरू धम्मदाणाओ ।।१।।" तस्य गुरोराचार्यस्य मूलमन्तिकं गुरुमूलं तत्र गुरुमूलेऽनेनान्यत्र धर्मश्रवणप्रतिषेधो दर्शितः, विपर्यस्तबोधसंभवात् । "श्रुतधर्मः" आकर्णिताणुव्रतादिप्रतिपादनपराप्तप्रवचनः, अनेन चाश्रुतागमस्य ज्ञानाभावेन व्रतप्रतिपत्तिर्न सम्यगिति तत्प्रतिषेधो दर्शितो, यदाह
"जस्स नो इमं उवगयं भवइ, इमे जीवा इमे थावरा (इमे तसा) तस्स नो सुपच्चक्खायं भवइ, से दुप्पच्चक्खायं भवइ, से दुप्पच्चक्खाई मोसं भासइ, नो सच्चं भासइ" [ ] त्ति ।
तथा स्वयमुत्प्रेक्षितशास्त्रस्यापि प्रतिषेध उक्तः । स्वयमुत्प्रेक्षणे हि सम्यक्शास्त्रानवगमेन सम्यक्प्रवृत्त्यभावात् यदाह