________________
૧૧૬
धर्मसंग्रह भाग-१ | प्रथम अधिकार | PRI5-१८ मलस्याल्पीकृतत्वादत एवेदं चरमयथाप्रवृत्तकरणं परमार्थतोऽपूर्वकरणमेवेति योगदृष्टिसमुच्चये व्यवस्थितम् । तथा च तद्ग्रन्थः"अपूर्वासन्नभावेन, व्यभिचारवियोगतः । तत्त्वतोऽपूर्वमेवेदमिति योगविदो विदुः ।।१।। प्रथमं यद् गुणस्थानं, सामान्येनोपवर्णितम् । अस्यां तु तदवस्थायां, मुख्यमन्वर्थयोगतः ।।२।।" [योगदृष्टिसमुच्चय गा. ३९-४०] इति १ ।। तारायां तु मनाक् स्पष्टं दर्शनम्, शुभा नियमाः, तत्त्वजिज्ञासा, योगकथास्वविच्छिन्ना प्रीति वयोगिषु यथाशक्त्युपचारः, उचितक्रियाऽहानिः, स्वाचारहीनतायां महात्रासः, अधिककृत्यजिज्ञासा च भवति । तथास्यां स्थितः स्वप्रज्ञाकल्पिते विसंवाददर्शनानानाविधमुमुक्षुप्रवृत्तेः कात्स्न्येन ज्ञातुमशक्यत्वाच्च शिष्टाचरितमेव पुरस्कृत्य प्रवर्त्तते । उक्तं च
“नास्माकं महती प्रज्ञा, सुमहान् शास्त्रविस्तरः । शिष्टाः प्रमाणमिह तदित्यस्यां मन्यते सदा ।।१।।” [योगदृष्टिस. गा. ४८] २।।
बलायां दृष्टौ दृढं दर्शनम्, स्थिरसुखमासनम्, परमा तत्त्वशुश्रूषा, योगगोचरोत्क्षेपः, स्थिरचित्ततया योगसाधनोपायकौशलं च भवति ३ ॥
दीप्रायां दृष्टौ प्राणायामः, प्रशान्तवाहितालाभाद् योगोत्थानविरहस्तत्त्वश्रवणम्, प्राणेभ्योऽपि धर्मस्याधिकत्वेन परिज्ञानम्, तत्त्वश्रवणतो गुरुभक्तेरुद्रेकात्समापत्त्यादिभेदेन तीर्थकृद्दर्शनं च भवति ४।।
तथा मित्रादृष्टिस्तृणाग्निकणोपमा, न तत्त्वतोऽभीष्टकार्यक्षमा सम्यक्प्रयोगकालं यावदनवस्थानात्, अल्पवीर्यतया ततः पटुबीजसंस्काराधानानुपपत्तेः, विकलप्रयोगादतो वन्दनादिकार्यायोगादिति ।
तारादृष्टिोमयाग्निकणसदृशी, इयमप्युक्तकल्पैव, तत्त्वतो विशिष्टवीर्यस्थितिविकलत्वादतोऽपि प्रयोगकाले स्मृतिपाटवासिद्धेस्तदभावे प्रयोगवैकल्यात्ततस्तथा तत्कार्याभावादिति ।
बलादृष्टिः काष्ठाग्निकणतुल्या ईषद्विशिष्ट उक्तबोधद्वयात्, तद्भावेनात्र मनास्थितिवीर्ये, अतः पटुप्रायाः स्मृतिरिह प्रयोगसमये, तद्भावे चार्थप्रयोगमात्रप्रीत्या यत्नलेशभावादिति ।
दीप्रादृष्टिः दीपप्रभासदृशी, विशिष्टतर उक्तबोधत्रयादतोऽत्रोदने स्थितिवीर्ये तत्पद्व्यपि प्रयोगसमये स्मृतिः एवं भावतोऽप्यत्र द्रव्यप्रयोगो वन्दनादौ, तथाभक्तितो यत्नभेदप्रवृत्तेरिति, प्रथमगुणस्थानप्रकर्ष एतावानिति समयविदः ।