________________
૧૧૫
धर्मसंग्रह भाग-१ / प्रथम मधिकार / PGTs-१८
___११५ "अचरमपरिअडेसुं, कालो भवबालकालमो भणिओ । चरमो अ धम्मजुव्वणकालो तह चित्तभेओति ।।१।। [चरमावर्त्तविंशिका-१९] ता बीअपुव्वकालो, णेओ भवबालकाल एवेह । इअरो उ धम्मजुव्वणकालो विहिलिंगगम्मुत्ति ।।२।।" [बीजादिविंशिका-१६] ननु - "गलमच्छभवविमोअगविसन्नभोईण जारिसो एसो । मोहा सुहोवि असुहो, तप्फलओ एवमेसोत्ति ।।१।।" [उपदेशपद गा.१८८]
इति श्री हरिभद्रवचनानुसारेण विपर्यासयुक्तत्वान्मिथ्यादृशां शुभपरिणामोऽपि फलतोऽशुभ एवेति कथमादिधार्मिकस्य देशनायोग्यत्वमित्याशङ्कायामाह-'मध्यस्थत्वाद्' इति रागद्वेषरहितत्वात् पूर्वोक्तगुणयोगादेव माध्यस्थ्योपसंपत्तेरित्यर्थः, मध्यस्थस्यैव चागमेषु धर्माहत्वप्रतिपादनात् यतः
"रत्तो १ दुट्ठो २ मूढो ३ पुट्विं वुग्गहिओ अ ४ चत्तारि । • एए धम्माणरहा, धम्मारहा उ मज्झत्थो ।।१।।" त्ति ।
श्रीहारिभद्रवचनं तु कदाग्रहग्रस्ताभिग्रहिकमाश्रित्येति न विरोधः, इदमत्र हृदयम्-यः खलु मिथ्यादृशामपि केषाञ्चित्स्वपक्षनिबद्धोद्धरानुबन्धानामपि प्रबलमोहत्वे सत्यपि कारणान्तरादुपजायमानो रागद्वेषमन्दतालक्षण उपशमो भूयानपि दृश्यते, स पापानुबन्धिपुण्यहेतुत्वात्पर्यन्तदारुण एव, तत्फलसुखव्यामूढानां तेषां पुण्याभासकर्मोपरमे नरकादिपातावश्यंभावादित्यसत्प्रवृत्तिरेवायम् यश्च गुणवत्पुरुषप्रज्ञापनार्हत्वेन जिज्ञासादिगुणयोगान्मोहापकर्षप्रयुक्तरागद्वेषशक्तिप्रतिघातलक्षण उपशमः; स तु सत्प्रवृत्तिरेवाग्रहनिवृत्तेः सदर्थपक्षपातसारत्वादिति ।
नन्वेवमपि स्वागमानुसारिण आदिधार्मिकस्योपपन्नं माध्यस्थ्यम्, परं तस्य विचित्राचारत्वेन भिन्नाचारस्थितानां तेषां स्वस्वमतनिष्ठानां कथं तदुपपद्यते? तदभावे च कथं देशनायोग्यत्वमित्यत्राह'योगेत्यादि । यद्यस्माद्धेतोः, तस्येति शेषः 'योगदृष्ट्युदयात्' योगदृष्टिप्रादुर्भावात् 'आदिमं 'गुणस्थानं' 'सार्थम्' अन्वर्थं भवति । अयं भावः-मिथ्यादृष्टयोऽपि परमार्थगवेषणपराः सन्तः पक्षपातं परित्यज्याद्वेषादिगुणस्थाः खेदादिदोषपरिहाराद्यदा संवेगतारतम्यमाप्नुवन्ति तदा मार्गाभिमुख्यात्तेषामिक्षुरसकक्कबगुडकल्पा मित्रा तारा बला दीपा चेति चतस्रो योगदृष्टय उल्लसन्ति । भगवत्पतञ्जलिभदन्तभास्करादीनां तदभ्युपगमात् ।
तत्र मित्रायां दृष्टौ स्वल्पो बोधः, यमो योगाङ्गम्, देवकार्यादावखेदो योगबीजोपादानम्, भवोद्वेगः सिद्धान्तलेखनादिकं बीजश्रुतौपरमःश्रद्धा सत्सङ्गश्च भवति, चरमयथाप्रवृत्तकरणसामर्थ्येन कर्म