________________
૧૧૪
ધર્મસંગ્રહ ભાગ-૧ | પ્રથમ અધિકાર | બ્લોક-૧૮
टी :
'सः' पूर्वोक्तगुणसम्पत्त्या प्रसिद्ध आदिधार्मिको 'धर्मदेशनायोग्यः' लोकोत्तरधर्मप्रज्ञापनार्हः 'जिनैः' अर्हद्भिः 'मतः' उपदिष्टः, कालतश्चायं चरमावर्त्तवत्यैवेत्यनुक्तमपि ज्ञेयम्, यत उक्तम् उपदेशपदे - “घणमिच्छत्तो कालो, एत्थ अकालो उ होइ णायव्वो । कालो अ अपुणबंधगपभिई धीरेहिं णिद्दिट्ठो ।।१।। णिच्छयओ पुण एसो, विन्नेओ गंठिभेअकालंमि (कालो उं)। एयंमि विहि (विहिणा?) सयपालणाउ (सयापालणाओ?) आरोग्गमेयाउ ।।२।। [गा. ४३२-३] एतवृत्तिर्यथा-“घनं मिथ्यात्वं यत्र स तथा, कालोऽचरमावर्त्तलक्षणो “अत्र" वचनौषधप्रयोगे “अकालस्तु" अनवसर एव भवति विज्ञेयः चरमावर्त्तलक्षणस्तु तथाभव्यत्वपरिपाकतो बीजाधानबीजोद्भेदबीजपोषणादिषु स्यादपि काल इति । अत एवाह-"कालस्तु" अवसरः पुनरपुनर्बन्धकप्रभृतिस्तत्रादिशब्दान्मार्गाभिमुखमार्गपतितौ गृह्येते, तत्र मार्गश्चेतसोऽवक्रगमनं भुजङ्गनलिकायामतुल्यो विशिष्टगुणस्थानावाप्तिप्रवणः स्वरसवाही क्षयोपशमविशेषो हेतुस्वरूपफलशुद्ध्यभिमुख इत्यर्थस्तत्र पतितो भव्यविशेषो मार्गपतित इत्युच्यते, तदादिभावापन्नश्च मार्गाभिमुख इति एतौ चरमयथाप्रवृत्तकरणभागभाजावेव ज्ञेयौ । अपुनर्बन्धकोऽपुनर्बन्धककालः प्रभृतिर्यस्य स तथा, धीरैर्निर्दिष्टो व्यवहारत इति ।।१।।
निश्चयतस्तु कालो ग्रन्थिभेदकाल एव, यस्मिन् कालेऽपूर्वकरणाऽनिवृत्तिकरणाभ्यां ग्रन्थिभिन्नो भवति तस्मिन्नेवेत्यर्थः, यतोऽस्मिन् विधिनाऽवस्थोचितकृत्यकरणलक्षणेन सदा सर्वकालं या पालना वचनौषधस्य तया कृत्वाऽऽरोग्यं संसारव्याधिरोधलक्षणम्, एतस्माद्वचनौषधप्रयोगाद् भवति । अपुनर्बन्धकप्रभृतिषु वचनप्रयोगः क्रियमाणोऽपि न. . तथासूक्ष्मबोधविधायकोऽनाभोगबहुलत्वात्तत्कालस्य, भिन्नग्रन्थ्यादयस्तु व्यावृत्तमोहत्वेनातिनिपुणबुद्धितया तेषु २ . कृत्येषु वर्तमानास्तत्कर्मव्याधिसमुच्छेदका जायन्त ।।" इति । ग्रन्थिभेदमेव पुरस्कुर्वनाह"इयरा वि हंदि एयंमि, एस आरोग्गसाहगो चेव । पुग्गलपरिअट्टद्धं, जमूणमेअंमि संसारो ।।१।।" [उपदेशपद गा. ४३२] व्याख्या-"इतरथापि” विधेः सदापालनमन्तरेणापि, हन्दीति पूर्ववत्, “एतस्मिन्" ग्रन्थिभेदे कृते सति “एष" वचनौषधप्रयोगः “आरोग्यसाधकश्चैव" भावारोग्यनिष्पादक एव संपद्यते । तथाच पठ्यते
"लब्ध्वा मुहूर्तमपि ये परिवर्जयन्ति, सम्यक्त्वरत्नमनवद्यपदप्रदायि । यास्यन्ति तेऽपि न चिरं भववारिराशौ, तद्विभ्रतां चिरतरं किमिहास्ति वाच्यम् ।।१।।"
अत्र हेतुमाह-"पुद्गलपरावर्तार्द्धं, यावत्, यद्यस्मादूर्ध्वं न, किञ्चिद्धीनं “एतस्मिन्" ग्रन्थिभेदे कृते सति "संसारो" जीवानां तीर्थकराद्याशातनाबहुलानामपि ।।" इति । विंशिकायामपि