SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ 0 શ્રી નિર્ણય પ્રભાકર સાનુવાદ लोकांतं यावत् व्याप्नुवंति अथवा एतत्प्रेरिताश्चालिताः संतो परे पुद्गला लोकांतं व्रजंति तथा तस्य देहस्य चलनाद्विनिर्गता वातादयः प्रसरंत: सकलमपि लोकं व्याप्नुवंति, ततश्च सूक्ष्मजीवविराधना स्यात्तस्मादिममारंभं सावद्यं विज्ञाय यथालब्धं वस्त्रमधितिष्टते न छेदनादिकं कुर्यात् श्री भगवत्यामपि सकंपस्य चेष्टावतो जीवस्य भयंकरत्वनिषेधात् संयमसाधनस्य देहस्य निर्वाहार्थं भिक्षाभ्रमणभोजनशयनांदिचेष्टास्तु न निषेद्धुं शक्या । अतो वस्त्रछेदनादि व्यापारो न विधेयः, इत्यं परेण स्वपक्षे स्थापिते सूरिराह आरंभमिट्ठो जइ इत्यादि ! किंच भो नोदक ! वस्त्रं छिंदंतं एकवारमीषद्दोषो भवति अछिद्यमाने तु वस्त्रे प्रमाणातिरिक्ते तत्प्रत्युपेक्षमाणस्य ये भूमिलोलनादयः प्रत्युपेक्षणादोषाः दिने, भवन्ति च तं वस्त्रं संप्रावृण्वतो विभूषादयो बहवो दोषास्तानपि विबुद्धस्व । अथ पुनः प्रेरक आह ॥ यदि वस्त्रछेदने युष्मन्मतेपि सकृद्दोषः संभवति ततः परिहियतामसौ, गृहस्थैः स्वयोगेनैव यद्भिन्नं वस्त्रं तदेव गृह्यतां, उच्यते घेतव्वगं चग्गं इत्यादि यावत्तद्भिन्नं मार्गयति तावत्तस्य सूत्रार्थपौरुष्यादौ हानिर्भवति । तथा य एष वस्त्रछेदनलक्षणो दोषः । स प्रत्युपेक्षणाशुद्धयादि बहुगुणकलितोस्ति यतः प्रमाणमेव वस्त्रस्य तदानीं साधवः कुर्वंति न पुनस्तत्राधिकं किमपि सूत्रार्थव्याघातादि दूषणमस्तीति । किंच यथा प्रयत्नपरस्य साधोराहारनीहारादिविधिविषयः सर्वोपि योगो भवन्मते नाप्यदुष्टस्तथा उपकरणच्छेदनादिकमपि यतनया क्रियमाणं निर्दोषं द्रष्टव्यं । यतो द्रव्येण भावेन च चत्वारो भंगा हिंसकत्वे भवंति । तथा हि द्रव्यतो नामैका न भावतः, भावतो नामैका हिंसा न द्रव्यतः, एका द्रव्यतोपि भावतोपि, एका न द्रव्यतो नापि भावत । अत्राद्यभंगके भगवद्मिरहिंसक एवोक्त इत्यादि ॥ १६) ઇસ પાઠકા યહ આશય હૈ કિ ચૌભંગી વ્ય ભાવકર હિંસાકી હોતી હૈ. ઉસમેં જો ધર્મકાર્યમેં ઉપયોગસે યતના પૂર્વક જીવો પર મારણેકા
SR No.022035
Book TitleZaverabdhi Granthtrayi Sanuwad Nirnay Prabhakar Jinmurtipradip Jinbhakti Prakash
Original Sutra AuthorN/A
AuthorNarendrasagarsuri
PublisherShasankantakoddharaksuri Jain Gyanmandir
Publication Year2007
Total Pages112
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy